________________
प्रथमोऽधिकारः
[ ९३
कृत्वा तस्थौ । तंतो नमस्कारप्रभावात् यक्षोऽर्जुनशरीरं मुक्त्वा स्वं स्थानकं ययौ । अर्जुनो निश्चेष्टकाष्टो भुवि पपात । अणात्सचेतनोऽभूत् । सुदर्शनेन पृष्टं-भो अर्जुन ! त्वया बहुजनहननात् भूरिपापं कृतं । कथं छुटिष्यत्यस्मात्पापात् ? अर्जुनोऽवग-अहं न जाने, किन्तु मुद्भरयक्षेण सर्व कृतं, स्वसम्बन्धः प्रोक्तः । ततः प्राप्तवैराग्योऽर्जुनमालिका प्रभं प्रणम्य दीक्षा लात्वा तस्मिन्नेव पुरे भिक्षायै भ्रमति, षण्मासी यावबुभुक्षितो लोकाक्रोशान सहित्वा सर्व- 5 कर्मक्षयान्मुक्तिं ययौ । इति यक्षकृतयापशमने अर्जुनमालिककथा ॥१४३॥
1144] अथ स्वहितकरणे चन्द्रकमलयोः कथा । कर्णपुरात् चन्द्रः कमलपुत्रेण सह पृष्ट वाहं नीत्वा वसन्तपुरं प्रत्यचलत् । मार्गे यदा पुत्रो वृषारूढस्तदा लोका जगु:-~अयं वृद्धः पद्भयां हिण्डते, युवा पुत्रस्तु वृषारूढः, कोऽस्य पुत्रस्य विवेकः ? ततः पुत्रस्तत उत्तीर्णः । वृद्धो वृषारूढश्चलति यदा लोका जगुः-पुत्रः पद्भ्यां 10 याति, पिता वृषारूढः । यदा द्वावपि वृषारूढौ तदा लोका जगुः-वृषो मरिष्यति एतौ मुग्धौ । यदा द्वावपि पितापुत्रौ पादचारिणौ जातौ तदा लोका जगुः-अस्मिन्नीक्षे वृषभे सति एतौ मुग्धौ पद्भ्यां हिण्डेते । ततो द्वावपि प्रोचतुः
सर्वथा स्वहितमाचरणीयं, किं करिष्यति जनो बहुजल्पः।
विद्यते स नहि कश्चिदुपायः, सर्वलोकपरितोषकरो यः॥१॥ तथा यथारुचि पितापुत्रौ यथेप्सिते पुरे ययतुः ।
इति स्वहितकरणे चन्द्र कमलयोः कथा ॥१४४॥
[145 ] अथ औत्पत्तिकीधीविषये नापितकथा । एकदा भोजभूपो नगरचर्यायां रात्रौ भ्रमन् नापितमेकां गाथा पुनः-पुनर्जल्पयन्तं श्रुत्वा रुष्टः । सा चेयम् - भरी यातां सहइ भरइ, ठाला भरइ न कोइ ।
20 भोजराज माहरइ सालो, मूहरई काईन देइ ॥१॥ यदा आकार्य शूलायां क्षेप्तुं चालितस्तदा नापितोऽवग्-मया कोऽपराधः कृतः ? राजाऽवगत्वं मां शालकं कुरुषे । तदा नापितोऽवग-अहं तु सत्यमेव वच्मि । यतः-त्वं परस्त्रीसहोदरः श्रूयसे । अतो मम पत्नी तव भगिनी । ततस्त्वं मम शालकः एतश्रुत्वा राजा हृष्टतं सम्मानयामास । इति औत्पत्तिकीधीविषये नापितकथा ॥१४५।।
25 [146 ] अथ प्रत्येकबुद्धस्वरूपम् । ___ करकण्डूनृपः कलिङ्गदेशेशः प्रथमं वृषभं दृढदेहं ब्रजन्तं दृष्ट्वा पश्चान्मृतिं दृष्ट्वा च जातिस्मृति प्राप्य प्रत्येकबुद्धोऽभूत् । देवतया लिङ्ग दत्तम् ॥१॥
15
"Aho Shrutgyanam"