________________
प्रबन्धपञ्चशतो
10
[ 138 ] अथ गुरुभक्तौ द्रोणाचार्य-भिल्लकथा । द्रोणाचार्य पार्वे युधिष्ठिरा-र्जुन-भीम-दुर्योधनादयो धनुर्विद्यां शिक्षयामासुः । अर्जुनो धनुविधा शिक्षयन् समग्रो धनुर्विद्या शिक्षयामास । ततो अर्जुनो गुरुपादौ नत्वा प्राह-भो द्रोणाचार्य ! गुरुत्तम ! यादृशी विद्या मह्यं दत्ता तादृशी नान्यस्मै कस्मैचिद्देया । ततो हृष्टो द्रोणाचार्य: जगौ-तव क्वः प्रमाणम् ? एवं सति कालं गच्छति । एको भिल्लो धनुर्विद्या शिक्षितुकामो द्रोणाचार्यपाश्र्वे धनुर्विद्यामर्जुनतुल्यां याचते स्म । गुरुणा न दे, ततः स को द्रोणाचार्यमूर्ति मृण्मयों कृत्वा कुञ्जान्तरे स्थापयित्वा प्रातरुत्थाय गुरुपादौ प्रणम्य भक्त्या प्राह-भो गुरो ! 'प्रसद्य मह्यं धनुर्विद्यां वितर' । एवं प्रति दिनं गुरोर्भक्तिं चक्रे । गुरुरग्रे धनुर्हस्ते लात्वा बाणं तस्मिन् संयोज्य चिन्तितानि पत्राणि विध्यति, शतधा भिनत्ति ।।
एकदा वने गतोऽर्जुनो वृक्षे ताक्षि पत्राणि छिद्रितानि दृष्ट्वा दध्यौ-गुरुणा प्रतिज्ञा विस्मृत्य कस्यापि धनुर्विद्या ददे, नो चेदेवं कः कराति ! ततोऽर्जुनो गुरुं पप्रच्छ ! भगवन् ! त्वया प्रतिज्ञा छिन्ना, विद्या करमै दत्ता ? गुरुः प्राहः-मया कस्यापि त्वां मुक्त्वाऽन्यस्मै धनुर्विद्या सम्पूर्णा न दत्ता । ततो द्रोणाचार्यार्जुनौ वने गतौ, ताभ्यां दृषण्मयी द्रोणाचार्यप्रतिमा
दृष्टा । स च भिल्लः प्रातरेत्य गुरुं नत्वा प्राह-अर्जुनदत्तधनुर्विद्यां मह्यं वितर । एवं प्रोच्य स 15 वृक्षस्थानि पत्राणि भिनत्ति । ततो द्रोणाचार्यपार्थाभ्यां भिल्लश्च पृष्टः-तव को गुरुः १ स
प्राह-मम द्रोणाचार्यः । भिल्लेन द्रोणाचार्यप्रतिमा दशिता, अनयाऽहं शिक्षितो विद्या, भक्त्या किं किं न स्यात? तोऽर्जनो खिन्नोऽभत । ततो गरुभिल्लं प्रति जगौ-तव विद्याऽभन्मत्प्रसादान मया मार्गितं दास्यते त्वया ? । सोऽवग-इदं शरीरं तवैव, यदि गेचते तद्याचनीयम् । ततो
गुरुणा भिल्लपाश्र्वा दक्षिणहस्ताङ्गुष्ठो याचितः ! ततस्तेन गुरुभक्त्या अङ्गुष्ठो दत्तश्छित्वा । 20 ततोऽर्जनात्स्तोका मनाग्विद्या भिल्लस्याभूत् , ततोऽपि भिल्लो गुरोरुपरि न द्विष्टोऽभूत्ततो ऽर्जुनोऽपि हृष्टः, द्वावपि गुरुं नमतः स्म ।
इति गुरुभक्तौ द्रोणाचार्यभिन्लकथा ॥ १३८ ।
[139] अथ शीलौदार्यविषये विक्रमादित्यकथा । एकदा विक्रमादित्यो भूपः पृथिवों विलोकयन् स्त्रोराज्ये ययौ । तत्र पुर्यामनेके धवलगृहादृष्टाः । 25 तत्र तु शतिनी-पद्मिनी-प्रभृतिनारीसहस्त्रशो दृष्टाः राज्ञा । ताश्च भूपं भोगाय याचन्ते
स्म । राजा मनागपि न चलितः, परस्त्रीपराङ्मुखत्वात् । ततस्ताभिस्तुष्टाभिः १४ रत्नानि दत्तानि । कीदृशानिएकेनाग्निस्तम्भः स्यात् [१]
पञ्चमेनास्यादिघातो न लगति [५] द्वितीयेन लक्ष्मीभवति [२]
षष्ठेन सर्वो वश्यो भवति [६] 30 तृतीयेन जलस्तम्भः [३]
सप्तमेन चिन्तिता रसवती भवति [७] चतुर्थन यानं भवति [४]
अष्टमेन कुटुम्ब वर्धते
"Aho Shrutgyanam"