________________
प्रथमोऽधिकारः
[ ८९
मया कृत्रिमः कद्दममयो हृदः करिष्यते, त्वया पादौ कईमे क्षिप्त्वा स्थेयमहं कर्षितुमायास्यामि 1 ततः पार्वती कर्द्दमे गोरूपा क्षिप्ता, ईश्वरो मनुष्यरूपस्तां कर्षितुमागात् । प्राह भो यात्रिका ! मनुष्या ! अत्रचिरादागच्छन्तु, एषा गौः पङ्कात्कर्ष्यते, अन्यथा मरिष्यति । कोऽपि नायाति, समसारं कुर्वन्तः सर्वे यान्ति । पुनरेकस्तत्र नायाति गां कर्षितुमेवं पुनःपुनरीश्वरे जल्पति लोका गच्छन्तो जगुः - तव एषा गौ मनसि आयाति अस्माकं जीवितं रक्षितं विलोक्यते 5 यदि स्थास्यते तदा पञ्चाव्याघ्रादयो मारयन्ति अस्मान् । ईश्वरोऽवग्-अहं स्थितोऽस्मि, अपरः कोऽपि द्वितीय आगच्छतु तदा एकः क्षणं गां कर्षितुं स्थितः । गौस्तु न निर्गच्छति ततः सोऽपि चरितुं चचाल । ततः स्वयं शम्भुः प्रविष्टो गां कर्षितुं कर्द्दमे मज्जन् प्राह-एषा गौरहं च कर्द्दमे प्रविष्टौ निर्गच्छन्तु ं न शक्येते अङ्गुलीर्मुखे क्षिपति जल्पति च कोऽपि पुण्यवानस्ति, यो मां गां च कर्षयति, तस्य यात्राधिकं पुण्यं भविष्यति ।
10
अत्रान्तरे - एकः पुमानपरं पुमांसं प्रति जयौ-आवां यात्रायै निर्गतौ पुण्यहेतोः, इदमपि पुण्यं जीवरक्षा क्रियते, जीवरक्षासमं पुण्यमन्यत्तु न विद्यते तेन एतौ कयेते । अपरोऽवग्त्वं प्रथिलो भूः मया स्थातुं न शक्यते । ततः प्रथमः स्थितो गां कर्षितुं यदि एषा निर्गच्छति तदा निर्गच्छतु नो चेन्ममापि प्राणा यान्तु । गवा पुरुषेण च समं कद्दममध्ये प्रविष्टः कर्षतुं लग्न: तदा गौरधोऽधो याति तदा सोऽपि अधोऽधोऽग्रतो याति । ततस्तं पुण्यवन्तमेकं दृष्ट्रा 15 पार्वतीय प्रकटीभूय जजल्पतुः । त्वमेवैतेषु लोकेषु पुण्यवान् हव्यते । ततः प्रसन्नीभूय पार्वतीश्वरी जजल्पतुः 'तवाक्षीणा श्रीभवतु' । ततोऽग्रे गतः, यात्रां कृत्वा गृहे आगतः । तस्य गेहे अक्षीणा श्रीरभूत ईश्वरस्तां प्राह-लोका बहवो दृश्यन्ते परं पुण्यवन्तः स्तोका एव ।
इति धर्मपरीक्षायां लौकिकपार्वतीश्वरकथा ।। १३६ ॥
[137 ] अथ स्तैन्यजनपुण्ये भिल्लकथा |
1
श्रीचन्द्रपुरं प्रति श्रीधरा आचार्यश्चेलुः मार्ग भिल्लघाटी मिलित। । भिल्लस्वामी सर्व सार्थ 'लुण्टयामास । ततः साधून लुण्डयितुं तत्रागतः प्राह-भो साधवः ! वस्त्राणि मुनाथ (त) । तदा गुरवो जगुः - स्तैन्यं न क्रियते, पापहेतुत्वात् मार्गे कस्यापि धनं नापहियते । भिल्लोऽवगूवस्त्राणि मुञ्चथ । (त) नो चेत् हता एव । गुरुः प्राह-त्वं पापं करोषि सर्व कुटुम्बं भक्षयिष्यति, श्वभ्रे त्वमेव बहुदुःखस्य भोक्ता भविष्यसि । स्तेनोऽवग्- सर्व कुटुम्बं विभज्य 25 भोक्ष्यति । गुरुः प्राह - तहिं पृच्छ कुटुम्बं प्रथमं पश्चाद्वस्त्राणि गृहाण यावस्त्वमागमिष्यसि तावद्वयं स्थिताः स्म । ततो भिल्लोऽचिरात् स्वकुटुम्बं प्रष्टुं गतः । प्रथमं भार्या पृष्टा - अहं साधूनां वस्त्राणि लास्यामि तस्य पापस्य भागं त्वं ग्रहीष्यसि ? प्रिया प्राह तवैव पापं भविष्यति । अहं भागं न ग्रहीष्ये । एवं कुटुम्बं पृष्टं कोऽपि पापभागं न गृह्णाति । ततो भिल्लो गुरुपाइर्वेऽभ्येत्यावग-कुटुम्बं पापं न लाति । गुरवः प्राह - 'यः कर्त्ता स एव भोक्ष्यते' । ततः स भिल्लः स्तैन्यकरणे नियमं जग्राह । ततोभिग्रहं प्रपाल्य भिल्लः स्वर्गे ययौ ।
30
इति स्तैन्यजनपुण्ये भिल्लकथा ॥ १३७॥
"Aho Shrutgyanam"
20