________________
८ ]
प्रवन्धपश्चचती
दध्यौ यद्यहं विष्टां वदिष्यामि तदा मामनन्धं ज्ञास्यति । ततः स हस्तेन कवलं भतुं यावविक्षेप तावद्वेश्ययोक्तं- स्थिरीभव, अजानत्या तव भोजने विष्टा पतिता ततस्तामपसार्थं वर्यमन्नं परिवेषितं । स च बुभुजे । ततः सा निःशङ्कं सर्वोषधानां नामग्रहणं लाति । तस्य वर्त्तयितुं दते । ततः सम्यग् हेमसिद्धिर्जाता । ततो मिषं कृत्वा ततो निर्गतो द्विजः । अन्यत्र गतश्छन्नं म 5 चक्रे 1 स्वयं भुङ्क्ते, दानं दत्ते, क्रमादपरैरपि औषधैरेकेन द्वाभ्यां हेमं करोति ।
ततोऽन्यदा भ्रमन् पुरद्वारे गतः स्वर्णसिद्धयभावाक्षराणि भूपलिखितानि ज्ञात्वा तेषामक्षराणामपसाराय भूपस्य गृहे महोत्सवे जायमाने दीपवर्त्तिकनरैः सार्द्ध हेमसेरद्वयं द्वास्थपा
क्षिपत् । राजसभायां रात्रौ गतः । तत्र स्वकृतदीपिकाधूमेन अन्यदीपिकाकरदीपिकाभिः सममुद्योतं कुर्वाणो राजसभा हेममयों कृत्वा राजभवनान्निर्गतः । प्रातर्भूपः सभां हेममयीं दृष्ट्वा 10 चमत्कृतः । पृच्छंपृच्छं द्वास्थपार्श्वान्नरमागतं ज्ञात्वा दध्यौ -यस्य स्वर्णसिद्धिर्विद्यते तेनेयं सभा हेममयी कृता । मया प्रपचेन स निःकासितव्यः । ततो राज्ञा तस्य ज्ञानाय भूमिगृहं कारितं । तन्मध्ये शतद्वयीस्वर्णकृतं मुक्तासूत्रं च भोजनादि च कारितं हेमसभारवर्ण तत्र मुक्तं । ते च सर्वे हेममयानि बीजपूर - नालिकेर लिम्बुकादीनि घटयन्ति । भूमिगृहद्वारपार्श्वस्थचित्रशालायां राजोपविशति । लोका यदा प्राभृतीकुर्वन्ति बीजपूरादीनि तदा राजा छन्नमधो भूमिगृहे 15 मन्त्रिहस्ते मुखति मन्त्री च छन्नं हेममयानि दत्ते । ततो लोके प्रघोषोऽभवत् यद् भूपस्य हस्ते प्राभृतीक्रियते तद्धेमं भवति । ततः पुमान् स हस्तहेमसिद्धिं ज्ञात्वा दध्यौ मत्तोऽधिको राजा जातः । अहं तूपक्रमतो हेम करोमि । राजा हस्तेन करोति । ततः सोऽपि काष्ठमयानि बीजपूराणि प्राभृतीकृत्य हेममयानि भूपपाश्र्वात्प्राप । यदि हस्तसिद्धिरपि मम स्यात्तद्वरं ततो राज्ञो मिलितः, स्वकृतां हेममयीं चित्रशाळां ज्ञापयामास । ततो राजाऽवग् -स्वर्णसिद्धि कथय, 20 ततो मम हस्तौ हेमहस्तसिद्धिं दर्शयिष्यतः । ततस्तेन हेमसर्वोषध चूर्ग करणादिकथनात् मसिद्धिस्तस्मै दर्शिता । ततो राजा भूमिगृहे तं नीत्वा हस्तेन हेममयबीज पूरादिसिद्धिं दर्शयामास । सोऽवग्- राजन् ! हस्तमसिद्धिं दर्शय । ततो राजाऽऽचष्ट मयोक्तं ममायं हस्तो महस्तसिद्धिं दर्शयिष्यति, तेन तु दर्शिता । ततः स पुमान् अहं धृष्टो भवता वचनच्छलात् । ततो राज्ञा पुरद्वाराक्षराणि दूरीकारितानि, तत्रान्यान्यक्षराणीति लेखयामास -
-
25
80
ऐदंयुगीनकालेऽपि कस्यचिन्मनुजस्य तु । हेमसिद्धिः समस्त्येव, कार्योऽत्र संशयो नहि ॥ २ ॥
ततो राजा हेमसिद्धिं कारंकारं महादानं ददौ ।
इति हस्त सिद्धिसम्बन्धः ॥ १३५ ॥ [136] अथ धर्मपरीक्षायां लौकिकपार्वतीश्वरकथा ।
एकदा द्वारिकायां कृष्णं नन्तुं लक्षमिता मनुष्याश्चेलुः । अत्रान्तरे पार्वती शम्भोः पुरः प्राह-- एते सर्वे जनाः पुण्यवन्तो यात्रां कर्त्तुं निर्ययुः । ईश्वरोऽवग्— एतेषां द्वित्राः पुण्यवन्तः
। गौरी जगौ - कथमेतद् ज्ञायते ? ईश्वरोऽवग-परीक्षां करिष्ये, त्वं गौर्भव, अहं नरो भविष्यामि ।
" Aho Shrutgyanam"