________________
प्रथमोऽधिकार!
[८७
कारयिष्यसि तदहं करिष्ये । ततस्तेन स्वगृहे स्थापितः । ततः। स मुग्धो भूत्वा सर्वेषामौषधानामाम्नायं जशौ । परं स्वं तज्ज्ञं न ज्ञापयति ।
इतस्तस्मिन्पुरे एकस्य कस्यचित्स्नानं कुर्वतः कर्णरन्ध्र सूक्ष्मा भेकी प्रविष्टा : वेदना जाता, न निगच्छति, ततस्तेन वैद्यस्य कर्णरन्ध्र दर्शितं । ततः स यदा तप्तसूचिका कृत्वा कर्णरन्ध्रे क्षेप्तुं लग्नः, तदा स वणिक्पुत्रो जगौ-एवं कृते द्वयोमरणं भविष्यति, तथा कुरु 5
द्वयोर्जीवितव्यं भविष्यति । यदास्थ कर्णरन्ध्रे वारिभृतं वर्तलक मुच्यते तदा भेकी स्वयमेव निगच्छति । तथाकृते भेकी स्वयं निर्गता | ततः श्रेष्ठिना स वणिक्पुत्रो मानितः, वैद्यो न मानितः । हसितश्च । ततो रुष्टो वैद्यो दध्यौ-अयं मुग्धो भूत्वा मदीयां विद्या मत्तोऽधिकं शिक्षितवान् । अतस्तथा करिष्ये यथा मरिष्यत्यसौ । ततः स श्रेष्ठिपुत्रो लब्धविद्यो नष्टः, ततो यत्र गच्छति तत्र तत्र शकुनबलाद्याति । तदा सोऽपि शकुनबलात्तमागच्छन्तं 10 ज्ञात्वा नश्यति । एवं तयोः सदा कुर्वतोर्वहवो दिना याताः, श्रेष्ठिपुत्रो दध्यौ ममायं वैद्यो गुरुस्थाने तेन हन्यते कथं मया तदेति ध्यात्वा गुहायो प्रविष्टः । अग्रे मृत्तिकया व्याघ्ररूपं सजीवमौषधेन कृत्वा मुमोच । वैद्यस्तत्रागतो व्याघ्रं दृष्ट्वा दध्यौ, स च गुहायां विद्यते, व्याघ्रः स्वयमेव हनिष्यति । ततो वैद्ये गते स श्रेष्ठिपुत्रस्तस्मान्निर्गत्य स्वमातुःपार्वे समेत्य स्वजीवनसम्बन्धं प्रोच्याऽन्यत्र ग्रामे गत्वाऽन्येषां लोकानामुपकारं चक्रे ।
15 इति परोपकारे भेष्टिपुत्र-वैद्यसम्बन्धः ॥१३४॥
[135] हस्तहेमसिद्धिसम्बन्धः ।। कमलपुर्या सोममेदिनीशः स्वर्ण सिद्धि कारंकारं अलब्धहेमसिद्धिः खिन्नः सन् पुरद्वारे लेखयामास---
ऐदंयुगीनकाले रै-सिद्धि व लभ्यते ।।
तेन तद्विषये कार्यः, पुंसा नोपक्रमः क्वचित् ॥ १॥ ततस्तं श्लोकं दर्श दर्श कोऽपि स्वर्णसिद्धिविषये उपक्रमं न चक्रे । इत एकः पुमान् गृहे गृहे भिक्षां याचमानो वेश्यागृहे गतः । तदा वेश्या सेरप्रमाणं हेम ददौ । स च ततो निर्गत्य दध्यौस्वर्ण सिद्धि विना नैवं केनापि दानं दीयते । पृष्टा सतो तु न सम्यकथयिष्यति । अतो माया तथा कुर्वे यथाऽस्याः समीपात्स्वर्णसिद्धिं ज्ञास्यामि । ततः स द्विजवेषधरो भ्रमन् वेश्यागृहद्वारे 25 गतः जगौ च मम पुत्रो मृतो निराधारोऽन्धोऽस्मि । यः कोऽपि धान्येन मां रक्षसि तस्य गहे स्थितो द्वाररक्षां करोमि । द्विजजीवितदाने पुण्यमपि भवति । ततो वेश्यया धान्ये स्थापितः ! सा वेश्या सप्तौषधान्यानीय सप्त दिनानि मईयित्वा तच्चूर्णेन दीपिका करोति । यत्र तस्या धूम्रो लगति त मं भवति । स च विप्रः सर्व पश्यति । पुनर्ने ज्ञापयति ।
एकदा वेश्या तस्मै चूर्ण वर्तयितुमर्पयन्ती दध्यौ-कदाचिदनेन माया मण्डिता भविष्यति, 30 तदा सर्व ज्ञास्यति । ततस्तस्य जीमितुमुपविष्टस्यामत्रे विष्टा पर्यवेषिता । पार्वे स्थिता च । तदा स
20
"Aho Shrutgyanam"