________________
[८५.
प्रथमोऽधिकार
[ 180 ] अथ बुद्धौ सूत्रधारकथा । भोजपुरे सूत्रधारो भूमिगृहे राज्ञा क्षिप्तः, ततः कियदिनानन्तरं पृष्ठो भूपेन-तव कियन्तो दिना जाताः ? स प्राह-दिनत्रयं । राज्ञोक्तं-कथं तत्र रविप्रकाशं विना वासरः ज्ञातः ? सोऽवग-अहं दिवान्धोऽभूवं, रात्रौ तु पश्यामि, तेन दिनास्त्रयो झाताः । स च परिधापितो राक्षाः । इति बुद्धौ सूत्रधारकथा ॥१३०॥
[ 131 ] अथ बुद्धौ श्रेष्ठिपुत्रीकथा । __ कलिपुरे भीमभूपो धनमिभ्यं दण्डयितुकामः प्राह-यस्त्वया प्रासादः कारयितुमारब्धोऽस्ति, तस्य प्रथमं शिखरं काय, पश्चादधस्थले बन्धः, नो चेद्दण्डयिष्यसे त्वं । ततः स सचिन्तः पुत्र्योक्तः-तात ! किं दुःखं तव ? इभ्येन भूपोक्ते प्रोक्त पुत्री प्राह-तथा करिष्ये यथा राजा न दण्डयिष्यति ।
10 तत इभ्यपुत्री मौक्तिकानि सेतिनकामितानि लात्वा राजगृहे गत्वा भूपाप्रे पाह-मौक्तिकानि लभ्यन्ते समथोनि । गृह्यस्ता । राजाऽवग-कथं लभ्यन्ते ? साऽवग-स्पद्धकेन मानक दास्यते । ततो राजा मानकमानीय मानकं भर्तुं लग्नः । तदेभ्यपुत्र्यवग-प्रथमं शिखा क्रियता, पश्चादधस्ताच । राजा प्राहैवं कथं भवति ? पुत्री प्राह तर्हि प्रासादशिखरं प्रथम किमु भवति ? ततो राज्ञा हारितं, सा च सन्मानिता, सा च परिणीता राज्ञा श्रेष्ठिनो बहु 15 ग्रामा दत्ताः । ततः प्रासादो निष्पन्नः, बिम्बं स्थापितम्।
इति बुद्धौ श्रेष्ठिपुत्रीकथा ॥ १३१ ।।
[ 132 ] अथ सामायिकफलविषये स्तेनसम्बन्धः । श्रीपुरे पद्मश्रेष्ठिनः पद्मावती पत्नी संभवश्चन्द्रकुमारोऽजनि, स च विनोऽभूत् । क्रमान्नटविटखुण्टकैः सार्धं तिष्ठन् चौर्य कर्तुं लग्नः, ततौ लोकगृहे प्रविश्य धनं हरते रात्रौ। 20
इतो लोका रावं कुर्वन्ति, ततो राज्ञा धृतः एकवारं मोचितः, द्वितीयवारं लोकैर्मोचितः, उक्तं च-अद्यप्रभृति चौर्यं न कार्य । सोऽवग्-स्तैन्यं न करिष्ये । पुनः प्रविष्टश्चौर्याय स च धृतः । शूलायां क्षेप्यमाणं तं राजाऽवग्-मम देशं त्यज । सोऽवगस्तैन्यं न करिष्ये । पुनः प्रविष्टश्चौर्याय स च धृतः । राजाऽवग-मम देशं त्यज' । सोऽवगमुच्यतां मां, भूपोक्तं करिष्यते मया । ततो निर्गतो मार्गे गच्छन् दध्यो,-अद्य कस्य गृहे 25 चौर्यं करिष्ये । तदाऽकस्मात्सरस्या नभसः सिद्धपुरुष उत्तीर्णः । पादुके उत्तार्य स्नानं कर्तुं लग्नः, ततः स स्तेनो वध्यो । यस्मिन् दिने चौर्य न क्रियते तस्मिन्दिने धान्यं न जीर्यनि । अद्य पादुके इमे मम देवेन दत्ते । अतः इमे ग्रहीष्यते । ततस्ते पादुके परिधाय व्योम्नि उत्पपात । पश्चादेस्य स्वपुरे लोकेषु पश्यत्सु स्तैन्यं चकार । केनापि धतुं न शक्यते । राजादयो विलक्षा अभूवन् । लोकै रावः क्रियते पित्रादिस्वजनगृहेष्वपि प्रविश्य चौर्य करोति स्म । यदा न धतुं 30
"Aho Shrutgyanam"