________________
10
८४.]
प्रबन्धपश्चशती भनेषु पञ्चसु छागो जातः । यज्ञेषु हुतोऽग्नौ' षष्ठभवे चारुदत्तेनानेनामशन प्राहितो नमस्कार श्रावितश्छागः । तन्महिम्ना मृत्वा छागः स्वर्ग गतः । स चाहं देवो झानेन स्वगुरुं चारुदत्तं मत्वाऽत्रागां । तेन गुरुत्वात्पूर्व चारुदत्तो वन्दितः पश्चात्साधुः । एवं श्रुत्वा चारुदत्तोऽपि दीक्षा
जग्राह । ताभ्यां खगाभ्यामपि धर्मः प्रपेदे जैनः, ततश्चारुदत्तः स साधुः स्वगं गतौ क्रमान्मुक्ति 5 गमिष्यतः । सुलसा-याज्ञवलक्यौ संसारं बहु भ्रमतुः पापात् ॥
इति जीवदयायां चारुदत्तकथा ॥ १२७ ॥
[128 ] अथ शकुनविषये आसधीरश्रीमालिककथा । माहडकग्रामे चन्द्रश्रेष्ठी धनी तस्य पञ्च पुत्राश्चत्वारो विस्तरेण परिणायिताः । पञ्चम पुत्रं देवलाह परिणयनयोग्यं श्रुत्वा चन्द्रपुरात् धनो महेभ्यो विवाह मेलितुं (मेलयितुं) स्वपुत्र्याचम्पावत्था तत्र समागात् । यावच्चन्द्रः श्रेष्ठी पुत्रस्य विवाहं मेलयति तावत्पुत्रः प्राह-अहं व्रतं ग्रहीष्यामि । एवं श्रुत्वा धनः खिन्नो यावत्पश्चाचलति तावदेवेनोक्तम्-अस्य गृहे श्रीमालझातीयः आसधीरकर्मकरोऽस्ति, स च कल्हरों कृत्वा शिखरं ददानोऽस्ति, सांप्रतं तस्मै स्वपुत्री देया, तस्मै कि दीयते ? यदा श्रेष्ठो तस्य संमुखं विलोकयति वावदन्येनोक्तं-कल्हरी
निष्पन्ना असो शिखरं ददानोऽस्ति । सा च कल्हरी शिखरयुता चिरं नन्दिष्यति । एवं श्रुत्वा 15 धनेभ्यस्तस्य विवाहं मेलयित्वा गृहे आगतः यदा तदा पत्नी रुष्टा, पुत्रा रुष्टाः प्रोचुरेवं
किं कृतं, कर्मकराय पुत्री दत्ता । धनोऽवग-शकुनान् वर्यान् श्रुत्वा दत्ता पुत्री, लतः सर्वेषु स्वजनेषु रुष्टेष्वपि तस्मै वा पुत्रीं ददौ । क्रमात्सप्तकोटिहेमस्वामी बभूव । तेनानेका प्रासादाः कास्तिाः, शत्रुजयादिषु यात्राः कृताः, सप्तक्षेत्र्यां स्वं धनं बहु व्ययितम् ॥
इति शकुनविषये आसधीरश्रीमालिककथा ॥ १२८ ।। 20
[129 ] अथ जीवदयायां स्तेनद्वयकथा । कर्णपुरे धर्मराजा राज्यं करोति स्म । एकदा कस्यचिदिभ्यस्य गृहे चौरद्वयं प्रविष्टं सन् धृतं । राज्ञोक्तं-भो चौरौ ! स्तैन्यं न क्रियते । परत्र दुःखप्राप्ते रिहापि शूलादिदुःखप्राप्तेः । लोकैरुक्तं-एतौ पापिनौ हन्यते । राज्ञोक्तं-पेटामध्ये प्रक्षिप्य नद्यां प्रवाह्यते । ततो निश्छिद्रपेटायां स्तेनद्वयं क्षिप्त्वा नद्यां प्रवाहितं । पेटा गच्छन्ती जले षष्ठे दिने श्रीपुरे लोकैः कर्षिता, उत्पाटिता, नृद्वयं दृष्टं । तत्र पृष्टं लोकैः
नद्वयं दृष्टं । तत्र पृष्ट लोकैः राज्ञा च-युवा केन पेटायां क्षिप्तौ ? ताभ्यां प्रोक्तंधर्मराज्ञा आवयोः चौर्यदोषेण पेटायां क्षिप्तौ वाइितौ च । राज्ञोक्त-भवतोः पेटामध्यस्थयो कियन्तो दिना जाताः ? एकेनोक्त-इदं षष्ठं दिनं । राज्ञोक्तं-कथं दिना ज्ञातास्त्वया ? सोऽवग-मम तृतीयो ज्वरश्चटति । यस्मिन् दिने ज्वरश्चटितः तत एकवारं विचाले ज्वरश्च
टितः कल्ये च चटिष्यति । तितो राज्ञा सन्मान्य चौर्य त्याजयित्वा स्वसेवको कृतौ। ग्रामाः 30 दत्ताः । तौ चौर्य त्यक्स्वा सुखिनौ जातो, मात्स्वर्गे गतौ ।'
इति जीवदयायां स्तेनद्वयकथा ॥१२९॥
"Aho Shrutgyanam"