________________
प्रथमोऽधिकारः
[८३
गहं पतितं रष्ट्रा मावृपित्रोः स्वर्गगमनं च पल्याः पितगृहे गर्मने (नं) च ज्ञात्वा चारुदत्तो दुःख्वभूत् । ततः श्वशुरगृहे गतः। ततः श्वशुरधनं लात्वा भीमपुरे व्यवसायार्थ गतः । तत्र धाच्या हृतं धनं । ततस्ततो निर्गतो मार्गे स एकं योगिनं ददर्श । योगी जगौ मम सार्थे आगच्छ, मम कथितं कुरु तदा तव दारिद्रयं स्फेटयामि । ततस्तेन सहाचालीत् । तेन योगिना मश्चिकारूढो रसकूपिकायां मुक्तः, रसेन कुम्भो भृतः । क्रमात्स्वर्णरसकुम्भं स्वहस्ते 5 नीत्वाऽधो मुक्तः । योगी तं रसकुम्भं लात्वा नष्टः । ततो दिनत्रयनु धितो गोधापुच्छयोगेन कष्टात्ततो निर्ययो । ततो मार्गे गजो मिलितस्ततोऽपि नष्टः । अग्रे गच्छतस्तस्य मातुलपुत्रो सददत्तो मिलितः। द्वावपि चलितो. मार्गे रुद्रदत्तोऽवग--मेषद्वयं गृह्यते. स्वर्णद्वीपे गम्यते. ततः स्वर्णमानेष्यते । ततो मेषद्वयं गृहीतं समुद्रतटे गतौ । रुद्रदत्तः प्राह-मेषाविमौ हत्वाऽनयोर्भस्त्रिकामध्ये गृहीतक्षरिकाभ्यां प्रविश्यते । ततो भारण्डा मांसबुद्धयोत्पाट्य हेमद्वीपे नयन्ति। 10 तत्रस्थं हेममानेष्यते । चारुदत्तोऽवग-जीववधः पापहेतुः कथं क्रियते ? ततो रुद्रेण एको मेषो हतः । ततो यावद्वितीयं हन्ति तावच्चारुदत्तेन नमस्कारं श्रावितो मेषोऽनशनं ग्राहितश्च ततः सोऽपि रुद्रेण हतः । ततो द्वावपि तयोर्भस्त्रिकयोः प्रविष्टौ। भारण्डाभ्यामुत्पाटिते भस्त्रिके मार्गे चारुदत्तभस्त्रिका भारण्डमुखात्पपात सरसि । ततो निर्गतः स स्थाने स्थाने भ्रमन् ध्यानलीनं साधं भक्त्याऽनंशीत् । तं दृष्ट्रा साधुना धमलामो ददे, धर्मः प्रोक्तश्च । चारुव ऽवग-स्वया कथं चारित्रं गृहीतं ? साधुः प्राह-येन त्वया यः खगः कीलितो मोचितः सोऽहममितगति (वेग) विद्याभृत् इत्यादि, यावद्वार्ता कुरुतो द्वौ तावद्विमानारूढौ साधुसुतौ खगौ पितुर्नन्तुं तत्रागतो।
इतश्चैको देषोऽभ्येत्य चारुदत्तं नत्वा साधु ववन्दे । विद्याभृद्भ्यो पृष्टं भो देव ! त्वं त बिबधः. साधं मक्त्वा पर्व गृहस्थः कथं बन्दितस्त्वया। ततो देवोऽवग-मयका गहः प्रथमं 20 वन्दितः । ताभ्यामुक्तं तेऽसौ गुरुः कथं १ देवोऽवग-वाराणस्या सुलसा-सुमद्रातापस्यौ विद्याबलगर्विते वसतः स्म ।
अथ तत्र याज्ञवल्क्यः परिवाद समागात् , तेन सुलसा जिता दासीकृता, क्रमात्तयोः पुत्रोऽभूत् । लोकापवादभिया पिष्पलवृक्षस्याधो मुक्त्वा देशान्तरे गतौ । सुभद्रया प्रातस्तां स्वसखीमदृष्टा पिष्पलवृक्षाधामुखपतितपिष्पलफलं बालं दृष्ट्वा दध्यो-मम सल्या पुत्रो जनितो 25 लोकापवादभिया त्यक्तः ।
ततो लोकाने जगौ-मम गङ्गया बालको दत्तः, इति वदन्ती तं बालकं बर्द्धयामास सा सुभद्रा । विद्या प्राहितः । स चानेकान् विद्याविदो वादेनाजैषोत् ।
अन्यदा पिप्पलादं वादिनं श्रुत्वा याज्ञवलक्यः सुलसायुतः तत्रागाद । वाराणस्यां पिष्पलादेन याज्ञवलक्यो जितो दासः कृतः । तदा सुभद्रापार्श्वे स्वं पुत्रं सुलसा शास्वा पिप्पलादं 30 प्रत्यवम् भो पुत्र ! स्वपितुरवज्ञां मा कुरु । ततस्तया तस्य व्यतिकरः प्रोक्तः ।
ततोऽन्यदा पिष्पलादो दध्यौ-अग्नौ हुतं सर्व स्वर्गे याति, मम मातापितरौ स्वर्ग नेष्ये, ततोऽश्वमेध-पितृमेधमातृमेधमुखान् यागान् कृत्वा मातापितरौजुहोति स्माग्नौ सः । तं तथाविधं शास्त्राणि बहून् द्विजान पाठयामास । तथाविधपापशाखं प्ररूप्य श्वभ्रं पञ्चमं गतः पिप्पलादः । ततो निर्गतो
"Aho Shrutgyanam"