________________
८२॥
प्रबन्धपञ्चशती
15
चाण्डालः कथमेतज्जानाति १ ततस्तं पप्रच्छ तापसः भो भद्र! सा जिनदासी त्वं च मच्चेष्टितं कथं वेत्थ ? तस्याश्च प्रभाः पूजा कुर्वतो जीवदयां पालयतोरवधिज्ञानं जातमस्ति तेन ज्ञायते । त्वं तु कुरुषे तपो जीवदयारहितं तेनानया तेजोलेश्यया नरके गमिष्यसि । ततः पश्चात्तापं धरन्
तापसः प्राह-सा बलाका मृत्वा कुत्रोत्पन्नास्ति यत्तस्यां क्षमयिष्यामि । कुणालोऽवग-सा बलाका 5 प्रमदवने शुको जाताऽभूत् तया मुनिवचः श्रुत्वा जिनालये कणिशैः प्रभोः पूजा कृता तेन
पुण्येन पद्मपुरे धनस्यभ्यस्य पत्नी धनवत्याही जाताऽस्ति साम्प्रतमेतत् श्रुत्वा तत्र गत्वा तस्याः पादयोः पतित्वा तापसः प्राह-क्षमस्व पुण्यवति ? मयि कृपां कृत्वा, साऽवग-क्व मम त्वया सहापराधोऽभूत् ? तापसोऽवग-मया तव बलाकाभवे त्वं मया हता। साऽवग-एतत् त्वया कथं
ज्ञातं ? सोऽवग्-जिनदासी-कुणालमातङ्गमुखात् ! ततस्तस्या अपि जातिग्मृतिरभूत् तापसस्यापि 10 च ततस्ताभ्यां मिथः क्षभितं । ततस्तापसो जैनी दीक्षा लात्वोमं तपः कृत्वा सिद्धः। जिनदासीकुणालौ सिद्धौ, बलाकाजीवः धनवती धर्म कृत्वा स्वर्ग गता ! इति जिनपूजा-जीवदयायां तापस-जिनदासी-कुणालकथा ॥१२५॥
[126 ] अथ कूटजन्पने कथा । मानाद्वा क्रोधाद्वा, लोभावा यदि वा भयात् ।
योऽन्यायमन्यथा ब्रूते, स याति नरकं नरः॥१॥ तथाहि-बने तित्तिरश्चुण्यर्थ गतो यदा, तदा तित्तिरस्याश्रये शशकः समेत्य स्थितः । तित्तिर आगत्याबग-- ममायमाश्रय, कथं त्वमत्र स्थितः ? शशकोऽवग-मदीयोऽयं । मिथो विवादे जाते एकः पुमान् प्राह-गङ्गातटे गच्छेतां, तत्र केदारकङ्कणौ दधानो हस्तयोधर्ममृत्तिआजारोऽस्ति स भवतोर्विवादं स्फेटयिष्यति । ततस्तत्र गतौ स्वं स्वं सम्बन्धं जजल्पतुः ।
तेनोक्तम्-अग्रे तिष्ठता युवाम् विवादो भक्ष्यते । ततो यदा तौ अप्रतस्तस्थतुः तदा द्वावपि 20 कूटजल्पको । इति प्रोच्य क्षुधातुरो मार्जारः केदारकङ्कमभृत् एकेनाहिणा तित्तिरं, द्वितीयेन शशकं हत्वा तृप्तोऽभूत् , ततो मृत्वा नरके गतः मार्जारः ।
इति कूटजल्पने कथा ॥ १२६॥
[127 ] अथ जीवदयायां चारुदत्तकथा । चम्पायां भानुश्रेष्ठिसुमद्रयोः पुत्रश्चारुदत्तः शास्त्राण्यपाठीत् । अन्येयुर्वने वैताठ्यवासिनं 25 खगममितवेगाहूं चारुदत्तो ददर्श । ततोऽप्रतो यावद् गत्वा विलोकयति तावत्कीलितं तं खगं
दृष्ट्वा दध्यौ, तदा तदसिकोशमध्ये विशल्यामौषधीमद्राक्षीत् । ततस्तदौषधं घर्षयित्वा यावन्निगड़े दत्तं तावत्स मुत्कलोऽभूत् , प्राह च--अहं वैरिणा खगेन कीलितो, मोचितः ततोऽहमपि तवोपकारं करिष्ये । एवं प्रोच्य स विद्याभृत् स्वस्थानके गतः । ततश्चारुदत्तः परिणीतः
क्रमात्कन्याया मुखमपि न वीक्षते । गणिकागृहे मातृपितृभ्यां तत्कलाः शिक्षितुं मुक्तः । मात्रा धनं 80 प्रेषितं द्वादशवर्षाणि तत्रास्थाव । स क्रमाद्धनागमात् वेश्यया कर्षितो यावद्गृहे गतस्तावद्
"Aho Shrutgyanam"