________________
10
प्रथमोऽधिकार
[८१ श्वभ्रे, ततः स्वर्गाद् धन्यजीवः चम्पायर्या इत्तेभ्यपुत्रो वरवत्ताहोऽभूत्, स च पपाठ विद्याः । वैराग्याद् बाल्यादपि सम्यक्त्वं ललो, दानी विवेकी । सुन्दरीजीवः श्वभ्रानिर्गत्य भवं भ्रमन् वरदत्तगृहे कामुकादासीपुत्रोऽभूत् वश्चनशीला "दासीपुत्रेति" नामाऽभूत् , स च वरदत्तं शत्रुमिव पश्यति प्राग्भववैरात्, पितरि मृते वरदत्तः गृहस्वामी अभूत् स च दासीपुत्रं सोदर. मिव मन्यते स्म । (दासीपुत्रो) वरदत्तरञ्जनाय मनो विना धर्म करोति स्म तं धर्मिष्ठं 5 ज्ञात्वा वरदत्तो जगौ-ममायं भ्राता लोकेऽपि भ्रातृत्वेन प्रसिद्धिरभूत् स च क्रमादासीपुत्रो वरदत्तं हत्वा गृहस्वामी स्थातुं वाञ्छति, मायया स्वं भक्तं झापयति ।
एकदा शयनावसरे विषलितानि नागवल्लीदलानि वरदत्ताय ददौ । वरदत्तस्तु चतुर्विधाहारप्रत्याख्यानं कृतं स्मृत्वा उच्छीर्षे मुक्त्वा सुप्तः, वरदत्तः प्रातर्नमस्कारपर उत्थाय देवगृहे देवान्नन्तुं ययौ।
इतो वरदत्तपत्न्या हस्ते चटितानि पत्राणि तया तु आवासाने भाजने मुक्तानि, तानि दासीपुत्रो लात्वा भुक्तवान् , मूञ्छितो भूमौ पपात, वरदत्तेनोपचाराः कारिताः, क्रमान्मृतः, स च वरदत्तो भ्रातृमृते दुखी बभूव न सुखं शेते मुक्क्ते । लोकैः शोक उत्तारितः, क्रमादुत्पन्नवैराग्यः वरदत्तो दीक्षां लात्वा विनयतपःपरः प्राप्तचतुर्थज्ञानः महोदयमुनिरिति नाम दधानोऽत्रागा भब्यवोधाय, स च दासीपुत्र एषा वृक्षस्था श्येनिका पश्चाद्भवपत्नी मे अतोऽस्या 15 दशनान्मम हास्यमागतं, तदा सा समलिका प्राग्भवान्स्मृत्वा वृक्षादुत्तीय गुरुपादयोः पतित्वा क्षमितवती स्वभाषया । गुरुणोक्तं-प्राग्भवमायाँ दृष्ट्वा हसितं, श्येनिकाऽनशनं लात्वा स्वर्ग जगाम। राजादयो बहवो लोका जिनधर्म प्रपेदिरे, क्रोधं तत्यजुश्च ततो निजं धर्म सप्तसु क्षेत्रेषु व्ययित्वा चारित्रं गृहीत्वा महोदयमुनिना समं विहारं करोति स्म । राजर्षेरपि चतुर्थ शानमुत्पन्नं, महोदयमूपर्षी क्रमात्स्वर्ग गतौ मुक्तिं यास्यतः ।
20 इति संसारासारतायां वरदत्त-श्येनिकाकथा ॥१२४॥
[126] अथ जिनपूजा-जीवदयायां तापस-जिनदासी-कुणालकथा । - रोहीतकपुरे रोहोतकस्तापसस्तपति स्म, सर्वथा कृपाधर्म न वेत्ति, क्रमात्तस्य तेजोलेश्याऽभूत् तपसा ।
एकदा तरुतळे तस्थौ, तदा मशाखोपविष्टा बलाका तस्य शीर्षस्योपरि व्युत्सर्जनं चक्रे, तदा रुष्टेन तेजोलेश्यया तां भस्मसाच्चक्रे ।
____25 ___अन्यदा स तापसो भिक्षायै भ्रमन् जिनवासगृहेऽगमत् , तदा तस्य पत्नी जिनदासी कृपावती प्रभोः पूजां कुर्वाणा चिरं भिक्षा दातुं समागता, यावत्तावत्स रुष्टस्तेजोलेश्यया तो भस्मीक मुखाद् धूमं वमनभूत् । तया तेजोलेश्या मुश्मानं तं ज्ञात्वा ज्ञानेनोक्तं-भद्र तापस! नाहंसा बलाकाऽस्मि । एतत् श्रुत्वा स चकितोऽवग-कथं भो भद्रे! मया हता बलाका देसि ? जिनवासी प्राह-वाराणसी गच्छ, तत्र कुणालः अन्तेवासी कथयिष्यति । 90 ततो विशेषाद्विस्मितो वाराणस्यां गतः । यावत्कुणालस्यान्तेवासिनो दृष्टो पतितस्तापसः तावत्कुजालेन प्रोक्तं-भो भद्र ! जिनदास्या अत्र प्रेपितः संशयच्छिदे, पुनर्विशेषाद्विरमतोऽसावपि
"Aho Shrutgyanam"