________________
८. ]
प्रबन्धपशिशती
जलमध्ये गतं । एवं मासद्वयं मया तत्र दृष्टं परं मया साहसं न कृतं । तत्रस्थो भारण्डपक्षावालम्ब्य चम्पकद्वीपोद्याने समागतः स मारण्डस्तत्रास्थात् ततोऽहं यानारुढोऽत्रागां; सोवपुरे यास्यामि । राजपुत्रेणोक्तं-तत्र किमर्थं गम्यते स प्राह-मातापित्रोमिलनार्थ । राजपुत्रः सुन्दरस्तेनोक्तविधिना तत्रागतः तथाऽत्राकस्माद् धुमधुमशब्दः समुद्रमध्यानिर्ययो । ततो महानावासः तस्मिन्गवाक्षे पाथप्रोक्ता कन्या समागता। चामरधारि(णी) भ्यामुक्तं यदि साहसं स्यात्तदात्रागच्छ । सुन्दरो यावत्तत्र यातुमुद्यतोऽभूत्तदा ज्वाला निर्गता। कुमारः साहसं कृत्वा तत्रागतः आवासश्च पातालेऽम्बुधौ गतः । चामरधारिणीभ्यां प्रोक्तं-तव भी स्ति । सुन्दरोऽवग-अहं न बिभेमि कुतोऽपि । कुमारोऽवग-का कन्या ? कस्य पुत्री ? चामरधारिण्ये का प्राह-वैताड्याद्रौ मेघरथोऽथ विद्याभृ
त्पुत्री परिणयनयोग्याऽभूत्तेन नैमित्तिकः पृष्ठः तेनोक्तं-लक्ष्मीचन्द्रस्य पुत्रः सुन्दरकुमारः 10 परिणेष्यति । तस्य च परोनां कृत्वा दातव्या । ततो जलकान्तमयमावासं सगवाक्षं समुदमध्ये
मुक्तं तत्रावाभ्यां युक्ता पुत्रीय मुक्ता आहारादि च परीक्षार्थ पतितोज्ज्वालो वह्निमुक्तः । उक्तं च विद्याभृता-प्रतिदिनं प्रातरावासात् बहिर्निगच्छन्ति स्म। साहसी स्यात्स तत्रागत्य कन्यां परिणेष्यति ।
अत्रान्तरे तत्रंको राक्षसस्तत्रागत्य कन्या वक्त्रे ललौ । कुमारोऽवग-मम देहं गृहाण, अम 15 कन्यां मुश्च । सुरोऽवग-देहि देह स्वं । ततः कुमारो निजमङ्ग ददौ । ततः स प्रकटीभूय प्राइ
तुष्टो वरं वृणु । राक्षसोऽवग-अहं तव साहसं कत्तुमागां । त्वं तु परोक्षायां निश्चलोऽभूः राक्षसेन अमोघकारिणी विद्या दत्ता ।। ___ इतः कन्यापिता तत्रागात् । तां सुन्दराय ददौ । सुन्दरो निजपितुः प्रेषितः । आकाशागामिनी
विद्या दत्ता । ततः सुन्दराय लक्ष्मीदत्तो राज्यं दत्त्वा स्वर्गे गतः । सुन्दरोऽपि चिरं राज्यं 20 कृत्वा स्वर्गे गतः, ततश्च्युतो मुक्तिं गमिष्यति ।।
धर्मे लक्ष्मीचन्द्रकथा-पुत्रीद्वयसम्बन्धः ॥१२३॥
[124] अथ संसारासारतायां वरदत्तश्येनिकाकथा । कौशाम्ब्यां महीपालो भूपो महोदयगुरुपावें धर्म श्रोतुमुपविष्टः, धर्म कथयता गुरुणा यदा हसितं, तदा प्रोवाच-भगवन् ! भवता कथं हसितं, हास्यं तु साधूनां न युक्तं, गुरुर्ज्ञानी 26 प्राह--लोकबोधाय । राजा पप्रच्छ-कथं लोकबोधः सर्मालकायाश्च । गुरुराह-भरतखण्डे-श्रीपुरे
धन्यः श्रेष्ठी, तस्य सुन्दरी भार्याऽभूत् , सा चान्यपुरुषासक्ताऽभूत् , स चोपपतिश्चन्द्रोऽवगसुन्दरि ! अद्यप्रभृति त्वया मम पार्वे नागन्तव्यं, अहं त्वत्कान्ताद् भूपाच्च बिभेमि । सुन्दरी प्राह-भीन कार्या, तथा करिष्येऽहं यथाऽऽवयो न भविष्यति, भर्तृहननात् ।
अन्यदा तया दुग्धमध्ये विषं क्षिप्त्वा हन्तुं भत्तुर्वाञ्छति । भर्ती जेमनायोपविष्टः । सा 30 चान्नं परिवेष्य दुग्धानयनाय गृहमध्ये गता, तावदाहिना दष्टा, भर्ना औषधानि कृतानि गुणो
न जातः, भार्या मृता, धन्यो रोदितुं लग्नः । लोकैरुक्तं पन्यां मृतायां कातर एव रौति, न साहसी । ततः स स्थितः । सा च मृता शार्दूलोऽभूत् । धन्यस्तु संयमं गृहीत्वा तपस्तेपे नितरां कायोत्सर्गे स्थितो वने प्राग्भववैराव व्याघ्रस्तं जघान । ऋषिरच्युते स्वर्गे जगाम । व्याघ्रस्तु तुर्ये
"Aho Shrutgyanam"