________________
18 1
प्रबन्धपश्चशती
मन्त्री प्राहः केन हृतं धनं १ रत्नोऽवग्-चन्द्रदेवेनावलिप्तं धनं, तेन मे प्रैथिल्यं जातं । मन्त्र्यभाणीत् कीदृशानि रत्नानि, कीदृशी तद्ग्रन्थिः, का तत्र मुद्रा ततस्तेन प्रन्थेरभिधानादि प्रोक्तं मन्त्रिणोऽग्रे ततो मन्त्रिणा रत्नो राज्ञः मेलितः रत्नग्रन्थिगमनादिसर्वं ज्ञापितं राज्ञः ।
1
ततो राजा श्रीपालो दध्यौ -एष श्रेष्ठी चन्द्रदेवः सत्यवादी, परद्रव्यपराङ्मुखः, कथमेवं5 विधं कर्म करोति, तथापि न ज्ञायते मनुष्यस्य मलिनत्वस्वरूपं ढोलस्य घोलत्वं च, तथाप्यस्य धनं बाल्यते । राज्ञोऽन्यदा श्रेष्ठी रन्तुमुपवेशितः, रमता श्रेष्ठिना स्वनामाङ्किता मुद्रा हारिता, राज्ञा तु श्रीपालेन श्रेष्ठिपत्नी मुग्धस्वभावा ज्ञात्वा छन्नं शिक्षयित्वा स्वसेवकः श्रेष्ठिगृहे प्रेषितः । स च तत्र गतः । श्रेष्डिहस्तमुद्रां श्रेष्ठिनामाङ्कितां श्रेष्ठिपल्यै दर्शयित्वा प्राहइf मुद्रां श्रेष्ठी प्रेषयामास । मन्मुखाच्चावग् मुद्रा स्थाप्या त्वया सा ग्रन्थिः रत्न सत्का 10 प्रेष्या । तया पतिभक्तया मुद्रां संथाप्य रत्नग्रन्थिस्तस्य ददे । स च छनं राज्ञः श्रोनालस्य शये ( शय्यायां ) तां मुमोच । राज्ञा तु रममाणेन स्वकोशाद्रत्नग्रन्थीः सप्ततिं ग्रन्थिमेकत्र कृत्वा ग्रे मुमोच । राजाऽवग - रत्नाग्रे तव प्रन्थिमुपलक्ष्य त्वं गृहाण । स च सर्वमभिधानादि प्रोच्यावग - ममायं ग्रन्थिः । ततो राजाऽवग् श्रेष्ठिन्त्रयं रत्नग्रन्थिस्तव गृहादानयितः । त्वं तु सत्यवादी, त्वया कथमवलुतं अस्य ग्रन्थिः परधनहृतेः श्वभ्रपातो भवति । ततश्चन्द्रदेवः 15 श्रेष्ठी जगौ - मया मौर्यादकर्त्तव्यं कृतं त्वमेव मे गुरुः, अतः परं मत्रैवंविधं पापं न कर्तव्यShree शुद्ध जिप्रासादो मया कारयिष्यते । रत्नोऽपि रत्नानि प्राप्य प्रासादं कारितवान्, मिथः प्रीतिभाजो जाताः सर्वे | चंद्रदेवरत्नो मिथो मिध्यादुःकृतं दत्त्वा प्रीतिभाजौ मृत्वा स्वर्गे सुरौ जातौ । राजा तु मृत्वा भोमपुरे भीमपुत्रो जोवपालाह्वोऽभूत् । स च बालो धर्म शृण्वन् प्राप्तवैराग्यः संयमं लात्वा चतुर्थज्ञानं प्राप्य जोवपालो विहरन्नागात् । स चाह 20 पश्चाद्भवपिता तब श्रीपालाह्न । इह तु जीवपालो ज्ञानी चात्र ते प्रतिबोधायागाम् चन्द्रदेवरत्नदेव ज्ञानेन स्वर्गात्पचाद्भवगुरुं ज्ञात्वा मम चामरौ ढालयतश्चामू भक्त्या श्रुत्वेतद्राजा धनदेवः पितरं गुरुं नत्वा सम्यक्त्वमूलं द्वादशत्रतरम्यं धर्मं जयाह । स च राजा अष्टोत्तरशतदेवकुलितायुक्तं जिनप्रासादं कारयित्वा मुख्यस्थाने नाभेयप्रतिमां स्थापयित्वाऽन्यासु देवकुलिकासु त्रयोविंशति जिनप्रतिमा अतिष्ठिपत् समहं । तस्मिन्प्रासादे जीवपालज्ञानिनः प्रतिमां चामरढाल26 नयुक्तौ सुरौ स्थापयामास राजा । धनदेवाऽपि राजा राज्ये स्वपुत्रं न्यस्य चारित्रं लावा चतुर्ज्ञानी जातः, तौ देवौ जिनधर्मिणामुपकारं चक्रतुः तौ देवौ स्वर्गाच्च्युती - केलिपुरे महासेनभूपपुत्रौ चन्द्रः सोमाह्रौ अभूतां । तयोः पूर्वकर्मयोगात् माता मृता । राजाऽन्यां राज्ञों पट्टधरां चक्रे । सा च स्वपुत्रस्य राज्यार्थिनी । तयोः कार्मणं हन्तुं करोति । तयोस्तु पुण्यबलान लगति स्म । पापात्सपत्नीपुत्राः स्वयं मृताः पुण्यप्रभावात्तयोः राज्यं दत्त्वा पिता चारित्रं जयाह | 30 तौ तु न्यायाद्राज्यं पालयतः स्म । करं स्तोकं चक्रतुः । यतः --
अकरे करकर्त्ता च, गोसहस्रवधः स्मृतः ।
प्रवृत्तकरछेदे च गवां कोटिफलं भवेत् ||२||
कमात्तौ स्वपुत्रयो राज्यं दत्त्वा दीक्षां लात्वा स्वर्गं गत्वा क्रमाच्च मनुष्यजन्म प्राप्य मुक्ति गतौ । सोऽपि जीवपालो ज्ञानी क्रमात्कर्मक्षयान्मुक्ति ययौ । धनदेवो भूपोऽपि न्याया
" Aho Shrutgyanam"