________________
प्रथमोऽधिकार
[ ७७ वाहनपुरणार्थ वस्तु गृहमपि न विश्रामयति स्म । चलितेऽम्युधौ याने भग्ना चिन्ता चौरचिन्ता समर्थमहार्थचिन्ता, एवं ध्यायन् स दध्यो
बिन्दुनाऽप्यधिका चिन्ता, चिताया इति मे मतिः।
चिता दहति निर्जीवं, चिन्ता जीवन्तमप्यहो ॥१॥ इति ध्यात्वा श्रेष्ठी संसारमसारं मत्त्वा दुःखमयं च धनं धर्मे व्ययित्वा चारित्रं 5 गृहीत्वा स्वर्ग गतः । इवि संसारासारतायां धनकथा ॥ १२१॥
[122] अथ धर्मविषये जीवपालादिकथा । श्रीपुरे श्रीपालभूपपुत्रो धनदेवो राज्यं चकार । स च गुरुवचः श्रुत्वा जिनधर्म चकार ।
___ एकदा राजा धनदेवः पुरोद्याने गतः, तत्र चतुर्हानिनं जोवपालाढू गुरुं दृष्ट्वा प्रणम्य 10 धर्मोपदेशं श्रोतुमुपाविशत्, अत्र धर्मोपदेशो ज्ञेयः ।
अत्रान्तरेऽकस्माद्देवद्वयं दिवः समेत्य गुरोरुभयोः पार्वे चामरे ढालयतः स्म । गुरुणोक्तं-~-साधूनां चामरढालनं न युक्तं । वारितौ देवो न तिष्ठतः स्म । ततो राज्ञा धनदेवेन पृष्टं-भो देवो ! युवाभ्यां कुतः किमर्थमागतं । गुरोरेवं च सेवा किमर्थ क्रियते ।।
चतु:-गुरव एव कथयन्ति । आवयोगुरोरग्रे जल्पनं न युक्तं । ततो राज्ञा पृष्टा गुरवो 15 जगुः
__ अस्मिन्नेव पुरे श्रोदेवपालो राजाऽभूत् , मतिसागरो मन्त्री च । चन्द्रदेवः श्रेष्ठी द्वादशव्रतधारको धर्म करोति स्म । स च श्रेष्ठी कस्यापि न्यासीकृतं वस्तु नापलपति स्म । राजमान्यः ख्यातोऽभूत् ।
एकदा कलापुरवासी रस्नो वणिम् रत्नद्वीपे रत्नदशकमुपाज्य यानारूढस्तत्र पुरे समागात्। 20 ततश्चन्द्रदेवं परद्रव्यपराङ्मुखं ज्ञात्वा रत्नग्रन्थिं न्यासीकृत्य पुनर्धनार्जनाय कुंकणद्वीपे ययौ। तत्राल्पं धनमुपायं पश्चादागतो चन्द्रदेव रत्नः स्वधनं याचते स्म । ___ श्रेष्ठी जगौ-कस्त्वं, केन न्यासीकृतं, कः साक्षो ? रत्नोऽवग् त्वमहं साक्षिणौ, त्वं तु हट्टाभ्रष्टः अन्यत्र मुक्तमन्यत्र विलोकयति । रत्नो जगावहं न भ्रान्तः, भवानेव भ्रान्तः । यदन्यदीयं धनं लात्वाऽपलपसि । ततो रत्नो ग्रथिलो भूत्वा रात्रौ हट्टाने सुप्तो जल्पति, मम 26 रत्नानि चन्द्रदेवोऽपललाप कोऽपि वालयितात्र मन्त्र्यादिर्नास्ति । एवं रात्रौ जल्पन्तं द्वित्रिदिनेषु दृष्ट्वा मतिसागरो मन्त्री पप्रच्छ तं, भो कथय पुरुष ! तव किं गतं, केन धनं हृतं, अथिलोऽभूः कथं ? सोऽवम्-गते धने को प्रथिलो न भवति, यतः--
एकस्यैकं क्षणं दुःखं, मार्यमाणस्य जायते ।' सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥१॥
30
"Aho Shrutgyanam"