________________
७६ ॥
प्रवन्धपश्चन्नती
उयहिंसरेविण संख गय, कुक्कड गया नहंसि ।
रह भग्गो सूरहत्तणओ, तेण न विहाइ रत्ति ॥१॥ आकण्र्येति साधवो जगुः-यत्प्रभुणा प्रोच्यते तत्सत्यमेव, परं बुभुक्षालग्नो किं न करोति ।
यतः-पञ्च नश्यन्ति पाक्षि, क्षुधार्तस्य न संशयः।
तेजो लज्जा मतिर्ज्ञानं, मदनश्चापि पञ्चमः ॥२॥ एतत् श्रुत्वा सूरिः प्राह
मया बुभुक्षया जल्पितं मिथ्यादुष्कृतमस्तु । ततः सूरिहृदयं दृढं कृत्वा प्रभातं नीतवान् ततः पौरुषी यावस्थितः । ततः पारितं प्रत्याख्यानं सूरिर्बुभुजे । तदा सूरिणा तपसा तेन
मुक्तिगमनयोग्यं पुण्यमर्जितं, ततः सदा स्तोकं स्तोकं तपो वर्धयन् सूरिरेकान्तरमुपवासान कुर्वन् 10 केवलज्ञान प्राप मुक्ति गतः । एवं दुष्करतपस उपरि सूरिकथा ॥११८ ॥
[119] अथ धर्मकर्तव्ये वत्सदृष्टांतः।। श्रीपुरे श्रीदष्ठिगृहे पुत्रस्य विवाहे जायमाने वत्सस्य चारि विश्राणयितुं विस्मृता । ततो मध्याह्नातिक्रान्ते पक्वान्नादिषु दृष्टी (ष्टि) अददानश्चारिं प्रति दृष्टी (ष्टि) ददानो
रुदितुं लग्नो वत्सः ततस्तं रुदन्तं दृष्ट्वा स्नुषया दयया चारिर्विश्राणिता तस्मै स च वत्सवारि 15 चरन् सुखी जातः । एवं जीवोऽनिशमधर्मे दृष्टिमददानी धर्मे दृष्टि ददानः सुखी स्याद्वत्सवत् ।
इति धर्मकर्तव्ये वत्सदृष्टान्तः ॥११९॥
[120 ] अथ असारविषये श्रीधरश्रेष्ष्ठिकथा ॥ भीमपुरे श्रीधर श्रेष्ठी धनार्थ व्यवसायं कुर्वन् रात्रिंदिका विश्राम न लाति स्म । धनं मिलितं बहु सप्तति वर्षाणि जातानि, धनं धनं कुर्वन्नधिकं जीवितं वाब्छति स्म । बह्वी नार्यः 20 परिणीतवान् ततस्तृप्तो नाभूत् ।। एकदाहारं पक्वान्नादिकं भक्तं पश्चात्तदेव विष्टा तथा दुर्गन्धं ज्ञात्वा जगौ श्रेष्ठी ।
धनेषु जीवितव्येषु, स्त्रीषु चाहारकर्मसु ।
अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥१॥ एवं सर्ववस्तुपरिग्रहादिकं चासारं मत्वा सर्व त्यक्त्वा संयम लात्वा स्वर्ग गतः । ततो मुक्तिमपि बहुषु भवेषु यास्यति इति असारविषये श्रीधरवेष्ठिकथा ॥१२०॥
[121] अथ संसारासारतायां धनकथा । श्रीपुरे धनःश्रेष्ठी प्रातरुत्थायोत्थाय ध्यायति स्म । अद्य मम यानं श्रीयुतं समायाति । याने समागते हृष्टो दध्यौ, वस्तु तत् विक्रयितुं रात्रिदिवा विश्राम न लाति, वस्तु विक्रीय
30
"Aho Shrutgyanam"