________________
प्रथमोऽधिकारः
[७५
चक्रिणो महान्तो राजानो गुरवश्च परिदधति । ततः वस्त्रमतो वनक-पुष्पमुत्कृष्टम् ।
इति वनकपुष्पोत्कृष्टतासम्बन्धः ॥११५।।
[116 ] अथ शिवप्राप्तिसम्बन्धः ।। गुरुभिरुपदेशो दत्तः-घटशब्देन देहः कुम्भश्च प्रोच्यते । तद्यथा कुम्भकारगृहकुम्भाः सामान्य मध्यमोत्कृष्टपुरुषैगृहीताः एके मद्येन भृताः, एके जलेन भृता, एके कपुरादिवर्यपानीयभृताः। 5 ततश्चाधममध्यमोत्कृष्टवस्तुभिर्धियन्ते । तथा देहघटाः पाप-पापापाप-पुण्यैर्धियन्ते । एवं ये पुण्येन देहं भरन्ति ते मुक्तिगामिनः । ये पापापापेभरन्ति देहं ते कदाचित्सुखिनः कदाचिद्दुःखिनः । ये पापैभैरन्ति देहघटं ते चिरं श्वभ्रादिदुःखं लभन्ते । कुम्भा अपि एवं ज्ञेयाः । इति देहघटार्जनयाप-पापापाप-पुण्य-श्वभ्रगति-दुःखादुःखशिवप्राप्तिसम्बन्धः ॥११६॥ [117 ] अथ बुद्धौ चाणिक्यसम्बन्धः ।
10 नन्दभूपस्य चाणिक्यो मन्त्री बभूव । स्तोक कोशं वीक्ष्य राजा खिन्नोऽभूत् । तदा राजमनो ज्ञात्वा चाणिक्थेन महेभ्या याचिताः प्रोचुः अस्माकं धनमर्पणयोग्यं नास्ति । ततश्चाणिक्थेन सर्वे महेभ्या भोजनाय निमन्त्रिताः वराहारं भोजिताः, ततो मदिराः पायिता: पत्रादि दत्त्वा चित्रशालायां शायिताः, परिणतायां मदिरायां एको धनोऽवग्-मम गृहे सप्तकोट्यो हेम्नां सन्ति । अन्योऽवग-तव गृहे स्तोका मम गृहे एकादश कोट्यः । एके त्रिंशत्, एके चत्वा- 15 रिंशत्, एके षट्पञ्चाशत् इत्यादि जजल्पुः । एकः प्राहाहं स्वर्णन गङ्गाप्रवाहं बध्नामि । एकः प्राह-मम गृहे सत्कगवां दुग्धेन गङ्गाप्रवाहं स्खलयामि । एकः मम गृहस्थधृततैलादिभिः गङ्गाप्रवाहं स्खलयामि, एकोऽवग्-धान्यमूढ कानां कोटिरस्ति, इत्यादि स्त्रस्वधनसंख्याकारिता इभ्याश्चाणिक्येन साक्षिणश्च कृताः, ततस्तेभ्यो धनं लात्वा राज्ञः कोशः कृतः ।
इति बुद्धौ चाणिक्यसम्बन्धः ॥११७॥
[118 ] अथ दुष्करतपस उपरि सूरिकथा । श्रीपुरे धनेश्वरसूरयश्चतुर्मासी स्थिताः । गुरुरुपवासं कत्तुं न शक्नोति । अन्यदा पर्युष. णापर्व समायातं । साधवोऽन्येऽपि श्राद्धा अपि षष्टाष्टमादितपः कुर्वाणा अभूवन् । तदा सूरिर्दथ्यौ-मयोपवासः कत्तुं न शक्यते तथापि अद्योपवासं करोम्येव ध्यात्वेति सूरिः प्रथमं पौरुषों चकार । ततः साद्ध पौरुषों ततः पुरिमार्द्ध तत अपार्द्धमत्रान्तरे साववो जगुर्भगवन् ! वयमत्रमा- 25 नयामः, पार्यतां वारा[?] क्रियता । गुरुभिरुक्तम्-अद्योपवास एव, ततः सन्ध्यायां प्रतिक्रान्तिः कृता । संस्तारकविधि भणित्वा गुरुणा संस्तारितं, तदा बुमुझया गुरूगां निद्रा नायाति, मध्यरात्री, सूरिः प्राह-भो साधव ! उत्सूरं जायमानमस्ति अन्नमानीयतां । साधवो जगुः--अद्यापि (अधुना) रात्रिविद्यते, सूर्य उद्गगतो नास्ति, शङ्खवादकेन शङ्खोऽपि वादितो न (नास्ति ), कूकुंटा अपि न शब्दिताः सन्ति, मध्यरात्रिर्विद्यते अतोऽधुना विहर्तुं गन्तुं न शक्यते, लोका अपि 30 सुप्ताः सन्ति । - सूरिः प्राह-शङ्खोऽम्भोधेः पितु (अम्भोधिं पितरं) मिलितुं गतः, सूर्यस्य तु रथो भग्नः, कूर्कटा अप्यन्यत्र गताः नभसि गता, यतः
20
"Aho Shrutgyanam"