________________
15
७० ]
प्रबन्धपश्चशती धूर्तो ज्ञातः, ततस्तदाऽकस्मात्तस्याः पितृप्राममध्ये गत्वा पितुरने धूर्तचेष्टितं झापयित्वा धृतों निर्धाटितः । ततः स्वपुरेऽभ्येत्य सा स्थिता । क्रमात्पतिः कृष्णास्यः समागात् । पन्योक्तं-किं ते कृष्णास्यं, तेनोक्तं-मयैकोऽहिरुपकारादग्नितः कर्षितः सन् वक्ति त्वा खामि, ततो मयोक्तंमया तवोपकारः कृतः, त्वमेवं कि कुरुषे ? सर्पोऽवग-“कलौ य उपकारं करोति स तेनैव हन्यते ।" पल्यवग-गच्छ, तत्र भीनानेया। ततः सा तत्र गत्वा प्राह भो सर्प ! किं तवोपकारकं मत्पतिं किं खासि ? सर्पोऽवग-भो त्रि! येनोपकारः क्रियते स हन्यते तेन । यदि मन्यते न त्वया तदा इयं महिषी प्रष्टव्या। ततस्तेन महिषी वृद्धा प्रष्टाह-मया श्रेष्टिनो गहे दश महिष्यो जनिताः । अधुना श्रेष्ठी जल्पति आत्मनो गृहे शकटं भञ्जन्नस्ति [भग्नमस्ति] तेनास्या
महिष्या वाण शकट बध्यते मया तूपकारः कृतः । श्रेष्ठी त्वपकारं चिकीर्षुरस्त्येव तत्रोक्तं 10 महिष्या वृक्षठुण्ठकं पृच्छ । तेन पृष्ठो ठुण्ठकोऽवग-मत्तले योगी कुष्ठी स्थितः स नोरोगोऽभूत्
ततस्तेनाहं मूलानां कर्षणादेवंविधः कृतः ततस्तयाक्तं-तथा कुरु यथा मत्पतिर्जीवति । ततो ठुण्ठकेनोक्तं-ममाधः स्थितां धूली लात्वा सर्पशीर्षे क्षिप, सोऽपिमरिष्यति । ततस्तया तथा कृतं, ततः श्रेष्ठी सुखी जातः । ततः सप्तक्षेत्रे स्वां श्रियं व्ययित्वा म्वर्गसुखं प्राप पत्नीयुतं क्रमान्मुक्ति यास्यति । इति कलिधर्म मप्पकथा ॥१०॥
[ 106 ] अथ कुसंगविषये गोकथा । कुसंगासंगदोषेण, साधको यान्ति विक्रियाम् ।
एकरात्रिप्रसंगेन, काष्ठघण्टाविडम्बना ॥१॥ अत्र कस्यचित्कौटुम्बिनो गौदुबला सती अन्यया गवा मत्तया सह लोकक्षेत्र प्रविश्य सस्यं भक्षयन्ती क्षेत्रस्वामिना बहिः कर्षिता । पुनभूयोभूयस्तत्र याति ततः क्षेत्रस्वामिना कौटुम्बिको 20 दण्डापितः । ततस्तेन गोस्वामिना सा गौर्गले काष्ठेन बद्धा । ततो विक्रेतुमापणे धृता तदा लोका
जगुरियं गौः लोकक्षेत्रे प्रविशति । अतो विक्रीयते । तदा गौर्जगौ, अहं कुसंगेनैवंविधां दशा प्रामा । | इति कुसंगविषये गोकथा ॥१०६॥
[107 } अथ इन्द्रियदमनाद मनविषये सम्बन्धः । वाणारस्यां पुर्यां आग्नेय्या दिशि गङ्गानद्यामर्वाग तीरे मृदङ्गहृदोऽभूत् । स च गम्भीरः 25 शीतलजलः कुमुदपङ्कजातिसुगन्धी[न्धि]पुष्पोपचितोऽभूत् । तत्र मत्स्यकच्छपादि जीवाः शतशः सुखं
तिष्ठन्ति । तत्र द्रहपार्श्वे वल्लीगहनमस्ति । तत्र द्वौ पापशृगाली वसतः। तौ पापौ चण्डरुद्रौ साहसिको पलाहारौ पलं गवेषयन्तौ रात्रिचारिणौ दिवा प्रच्छन्नं तिष्ठतः । ___ अन्यदा मृदङ्गहृदपार्श्वे सायमाहारार्थिनौ कूमौं, शृगालौ दृष्ट्वा भीतौ हस्तादि संकोचयित्वा
(च्य) स्थितौ । ततः पापशृगालो मायया शनैःशनैहदपाश्व तिष्ठतः। कस्यापि किमप्यपराधं न 30 कुरुतः स्म । ततो विश्वस्त एकः कूर्मः पादं बहिः कर्षयामास । ततश्चपलगत्या तत्रत्येक पादं
भक्षयतः स्म, ततो द्वितीयं चतुर्थ पादं भक्षयतः स्म । ततः कूर्मो मृतः। द्वितीयः कूर्मस्तयोः शृगालयोः स्वरूपं ज्ञात्वा तत्रैव देहगुप्तोऽभूत् । स च सुखी जातः ।।
एवं यो यतियतिनी वा आचार्य पार्श्वे प्रवजितः । क्रमाद्योऽगुप्तेन्द्रियो भवति, स प्रथमकर्म
"Aho Shrutgyanam"