________________
प्रथमोऽधिकार
10
___15
सोऽपिनष्टः अपमोफ्नयः- एक्मत्रापि आचार्याणामुपेक्षमाणानां महान दोषः स्यात् , तस्मादुपेक्षा नं कार्या; कलहो निवार्य एक । इति कलहे सरढद्वयकथा ॥१०३।।
[ 104 1 अथ औदार्ये कुमारपालंभूपसम्बन्धः । पत्तनेऽन्यदा श्रीकुमारपाले भूपे राज्यं कुर्वाणे वैतालिका वैदेशिकः सकौपीनः सन्ध्यायामाजगाम, गणिकागृहे तत्र यष्टिमुद्राणके मुक्त्वा वासकं स्थितः । प्रातयंदा राजा भूरिधनं दास्यति 5 तदा मया प्राह्यमिति ध्यात्वा भूपसभायां स गतः । स च भूपेन पृष्टः, कुत आगतः ? ततो वैतालिको जगौ-स्वर्गात्त्वां द्रष्टुमत्रागाम् , त्वां विना तत्रैव स्वर्गे एवं जायमानमस्ति
अपच्छर नच्च न पिक्खणड, सुरतरु गंध न देइ ।
भेर न वज्जई सुरभवणि, तुह सिरि कुमर ! सुणेइ ।।१।। ततो राजा तस्मै हेम्नो दशशतों ददौ, तदनु वंतालिको जगौ--
कोडि टंक कलक्खहयसहमतिमत्तगयंद ।
कुण अप्पइ पट्टणहिउ, विणु सिरि कुमरनरिंद ॥२॥ ततो राजा पूर्वदत्ताद्विगुणं दापितं, स च गतो निजस्थाने, तां श्रियं क्रमाद्भक्त्वा राजपथि स्थितं तं वैतालिकं दृष्ट्वा राजाऽप्राक्षीत् , क्व गतं तद्वनं स प्राह--
उर अंतर वाहलया, थणपन्चयरोमराइवणगहणं ।।
सुरनरगणगंधचा, नग्गवि आमयणाचारेण ||३|| ततः पुनर्धनं दत्त्वा राजा स्वपार्श्व स्थापितः, क्रमाद्धर्ममङ्गीकारितः स भूपेन ।
__ इति औदार्ये कुमारपालभृपसम्बन्धः ।।१०४॥
[ 105 ] अथ कलिधौ सर्पकथा । श्रीपुरे धन श्रेष्ठी तस्य प्रेमवती पत्नी बभूव । क्रमालक्ष्मीमुपायं चत्वारः कलशा राभिर्भूताः। 20 गृहचतुःकोणेषु न्यस्ता रहः एकदा श्रियमयितुं विदेशं प्रति चिचलिघु पति पत्नी प्राह--सार्द्ध समेष्यामि । पतिः प्राह-तव प्रतिबन्धो मे स्यात् । पत्नी प्राह-त्वं गत्वा यदा तत्रास्थाः तदा मे का गतिः ? विदेशे वर्या नार्यो भवन्ति, ताभिः कामितः सन् तत्रैव स्थास्यति । स प्रहाहं त्वां विना नान्यां पत्नी करिष्ये, अस्मिन् भवे यदि कदाचिद्व्याजेन-लोभात्तत्र स्थास्यामि तदाऽहं त्वां तत्राकारयिष्यामि ।
25 ___अत्र गृहमध्ये चतुःकोणेषु रैकुम्भाः सन्ति तेषां सारा कार्या । यद्यहं तत्र स्थास्यामि तदा त्वं रैकुम्भात्रीत्वाऽऽगच्छेः । पल्या मानिते पतिश्चचाल । तदा धूत्तचौरेण श्रेष्ठ्युक्तं श्रुतं । श्रेष्ठी कुङ्कणदेशे गत्वा श्रियमर्जयति । इतः स धूर्तो रहः कूटं लेखं लिखित्वा प्रेमवत्यै ददौ, तयेति वाचितः
"त्वं पत्नि ! रैकुम्भान् चतुरोऽपि लात्वाऽनेन पुंसा समं मम पार्श्वे चन्द्रपुरे समागच्छे”। 30 ततस्तया रैकुम्भान् लात्वा रथं कृत्वा तेन पुंसा सह चलिता । क्रमाद्गच्छत्या तया
"Aho Shrutgyanam"