________________
प्रथमोsurre
[ ६५
यावता पुत्रो राजयोग्यो न भविष्यति तावदहं राज्यरक्षां करिष्यामीति कृत्वा स्वयं नन्दभूपवद्राज्यं चकार बैरोचनमन्त्री ।
ततो वानरो मालिको वैरोचनं राज्यं कुर्वाणं श्रुत्वा भयभ्रान्तो बहिरेव तस्थौ नायातो पुरमध्ये, नन्दपत्नी प्राप्तसमये सुतं प्रासूत, पूर्वेत्र रविं पुत्रजन्मोत्सवः कृतः ।
पुत्रो लाल्यमानः षड्वर्ष प्रमाणो लेखशालायां मुक्तः सर्वेऽपि लेखशालिका हसन्ति पराभवन्ति च निष्पितृकोऽयमिति ।
मातुरग्रे आगत्यावक-मम पिता कुत्र मृतः, कथं वेति वद । माताऽवग् — वैरोचनमन्त्रिणा युतस्तव पिता शूकरपृष्ठो धावितः दूरतो ययौ । वैरोचनेनोक्तं नन्दो राजा वराहेण मारितः खादितश्च सम्यगहूं न जाने क्रिमभूत्ततःप्रभृति वैरोचनो राज्यरक्षां चकार । शृत्वैतन्नन्दभूपाङ्गजो दध्यौ - मम पितैवं कथं वराहेण मार्यते । यथा मृतोऽभूत्तथा मया ज्ञातव्यः । ततश्चिन्तापरश्चतुरो 10 राजपुत्रः सदा रात्रौ कृष्णवस्त्रं परिधाय पुरमध्ये चतुरशीतिहट्टश्रेणिषु सेरिकासु सेरिकासु भ्रमति स्म । क्रमात्सर्वशास्त्रज्ञोऽभूत् पठन्, यतः-
जले तैलं, खले गुह्यं, पात्रे दानं मनागपि ।
प्राज्ञे शास्त्र स्वयं याति विस्तारं वस्तुशक्तितः ॥
5
राज्ययोग्यं पुत्रं ज्ञात्वा माता मन्त्रिपार्श्वात् राज्यं पुत्राय दापितवती । नन्दपुत्रोऽप 15 राज्योपविष्टः सदा रात्रौ छन्नं पुरमध्ये भ्रमति स्म । द्वादशवार्षिको जातः क्रमात्स नन्दपुत्रः अन्येद्युः रात्रौ वानर मालिकस्य गृहपार्श्वेऽभ्येत्य राजा यावत्स्थितः तावदितो वानर मालिको नन्दपुत्रं राज्याधिष्ठितं श्रुत्वा रात्रावेव गृहद्वारे आगतो विलोकयति यावत्तावद्गृहमध्ये दीपं ज्वलन्तं दृष्ट्वा मातापितरावदृष्ट्रा दध्यौ नूनमनया कोऽप्यन्यः पुरुषोऽङ्गीकृतः संभाव्यते । एवं विचिन्त्य काव्यमेकं प्राह
कमलदलसुनेत्रे हारिहाराभिरामे, स्तनतटकटहंसे रोमरङ्गैः सुरङ्गी [ङ्गि ] |
अमलतपसुरूपे ! पद्मवक्त्रे ! जिताब्जे, कृतिमनुजनिषेव्या वर्त्तसे किं प्रियेऽद्य ||२४|| श्रुत्वैतत्काव्यं भ्रान्तचित्ता प्राह मालिका
9
तपनियमविधानैः शोषितं येन गात्रं, बहुकुसुमसमूहैः पूजितो येन देवः | रणमुखगजदन्तैर्येन भग्नं शरीरं तदमलपतिसेव्याऽहं सदा नान्यपुंसः ||२५|| एतावद्भार्यावचः श्रुत्वा स्वस्थचित्तः कुशलस्वरूपं बहिःस्थ एव पप्रच्छ भार्याम्गृहे कुशलता कान्ते!, पिता मिता न दृश्यते । प्रदीपकरणं कस्मान्मध्यरात्रौ वद प्रिये ॥ २६ ॥ स्वामिन्नहं निशीथिन्यां तपश्चान्द्रं वितन्वती । देवस्य साम्प्रतं दीप - मकार्षमर्चनाकृते ||२७| स्वं किं पृच्छसि हे भर्त्तः !, निःस्नेहोऽसि प्रियो मम । मातापित्रोः सुखं दुःख, जीवितं च पुनः पुनः ||२८||
"Aho Shrutgyanam"
20
25
30