________________
६४ ]
प्रबन्धपञ्चशती
ऽम्भः पपौ । चिन्तितं च अहो ईदृशं जलस्थानमस्ति, विलोक्यते बहु जीवितव्यं विना विलोकितं वरमिति ध्यात्वा मन्त्रिणं तत्र मुक्त्वा राजा वापीं द्रष्टुं गतः । वापीं विलोक्य पश्चाद्वलन् प्रशस्ति वीक्ष्य तन्मध्ये एकं श्लोकं तत्कालार्द्रकर्द्दमस्थगितं वोक्ष्य दृष्यौ अपरः कोऽप्यधुनाऽस्मिन् वने दृश्यते न ।
5
दध्यौ च नूनं मन्त्रिणा स्थगितः । एवं विचिन्त्य पश्चादागतस्तावन्मन्त्रणा चकितेन श्लोक' स्थगितमस्थगितमित्यादिविकल्पपरः पयो दूरं त्यक्त्वा मायया तृषाकान्तो भूत्वा मुखं प्रसार्य स्थितः, राजा आगात् जगाद च - मन्त्रिन्नीदृशः कथं दृश्यते । मन्त्री प्राह-मायया जलं गतं 10 तृषा लग्ना पानीयमानयामि पश्चाञ्चल्यते पुरं प्रति एवं कृत्वा मन्त्रो लाकवचनार्थं गतो वाप्यां यावद्विलोकयति तावत्कर्द्दममपसारितं दृष्ट्वा दध्यौ - नूनं भूपेन वाचितः श्लोकः भूपो मां मार
यति किं करिष्यति भययुगभूत् पादौ पश्चादागन्तुं न वहतः, वेला लग्ना चलिता यावत्तत्रायाति तावद्राजा सुप्तः । सुप्तं भूपं दृष्ट्वा दध्यौ मन्त्री अयमेवावसरः मारणे या जागरिष्यति तदा मां मारयिष्यति । राजान आत्मीया न भवन्ति, यतः ----
15
अयं द्रु श्लोकोऽधुनैवाच्छादितः संभाव्यते, तेन केनापि कारणेन स्थगित इति ध्यात्वा जलेन कद्दममुपसार्य श्लोकं वाचयामास - " तुल्यार्थं तुल्यसामर्थ्य " मित्यादि ।
25
30
काके शौच, द्यूतकारे च सत्यं, सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लie धैर्य, मद्यपे तत्वचिन्ता, राजा मित्र, केन दृष्टं श्रुतं वा ॥
अत्रान्तरे पालिस्थ [म] द्राक्षवृक्षशाखायां विशालानगर वास्तव्यो वानराह्नो मालिकः स्थितः । 20 सर्वं राजमारणादिकं दृष्ट्वा भय भ्रान्तः शाखान्तरं गतः । तावन्मन्त्री शाखाकम्पनं दृष्ट्वा श्लोकं प्राहशाखा प्रकम्पिता येन, वानरेण नरेण वा ।
अचिरेणैव कालेन शाखाभेदो विनश्यति ॥ २३॥
मालिको मन्त्रिवचः श्रुत्वा दध्यौ -- अहमनेनात्र स्थितो, ज्ञातो वा नेति ध्यायन् मौनी
एवं ध्यात्वा राज्ञः खड्गमादाय मन्त्री राजानं सुप्तं जघान । तत उत्पाट्य पालिमध्ये च चिक्षेप भूमौ ।
•
बभूव ।
मन्त्री तु तदा एवमुक्त्वा तुरंगमौ द्वौ लात्वा पुरमेत्य प्राह, राजलोकाग्रे - राजा दूरतो बने मारितः खादितश्च । ततो राज्ञी प्राह अहं न जीविष्यामि । मन्त्रिणा सुकुमालवचनैः शान्तीकृता राज्ञी, शोक उत्तारितः, मन्त्री प्राह – सर्वेषामग्रे, इयं राज्ञी सगर्भाऽस्ति, सुतो भविष्यतीति संभाव्यते, तेन राज्ञ्याऽपरै राजलोकैश्च खेदो नानेयः, भवितव्यताम्रतः कोऽपि न छुटिष्यति, यतः - आन्ध्यं यद् ब्रह्मदत्ते, भरतनृपजयः, सर्वनाशश्च कृष्णे, नीचैर्गोत्रावतारश्वर मजिनपते, स्तीर्थनाथेऽबलात्वम् ।
निर्वाणं नारदेऽपि, प्रशमपरिणतिः सा चिलातीसुतेऽपि, इत्थं कर्मात्मवीर्ये स्फुटमिह जयतः स्पर्धेमाने जगत्याम् ॥
" Aho Shrutgyanam"