________________
प्रथमोऽधिकारः
[ ६३
ततो राजा संनय मन्त्रियुतः सपरिच्छदो वराहं हन्तुं वने ययौ, प्राह च-कुत्रास्ति वराहः ? वनपालके न दर्शितः। राज्ञो मण्डली मण्डयित्वा वराहो हक्कितः, रे दुष्ट ! पापिष्ट ! बहिर्निगच्छ कुक्षात् । श्रुत्वैतत् सूकरो घुघुरारावं कुर्वन् बहिर्निर्गत्य राजमन्त्रिपार्श्वे स्थित्वा निर्ययौ। राजा मन्त्री च तत्पृष्टौ धावितौ वायुवेगाश्वारूढौ । परिवारः पश्चास्थितः । कियती भूमिमागत्य श्रान्तौ राजमन्त्रिणी, सन्ध्यायां स्थितौ वराहश्छलं कृत्वा कचिद्ययौ । ततो द्वावपि खिन्नौ जजल्पतुः, 5 सन्ध्या पतिता आवां दूरभूमिमागतौ । तृट् लग्ना । अत्रवने सिंहादयो बहवः सन्ति, कथं । रात्रिर्गमिष्यते ? एवं जल्पतोद्वयोः मन्त्री नीतिज्ञोऽवग
वृहद्भानोर्महाज्वालां, ज्वलन्तीं वीक्ष्य दूरतः ।।
सिंहाद्याः श्वापदाः सर्वे, तिष्ठन्ति दूरतः खलु ॥१९॥ एवं विमृश्य काष्ठान्यानीयाग्नि प्रज्वाल्य महाज्वाला ज्वलन्तीं कृत्वा जागरितौ द्वावपि 10 रात्रि निन्यतुः, यत:
उद्यमे नास्ति दारिद्रथं ,पठने नास्ति मूर्खता ।
मौनेन कलहो नास्ति, नास्ति जागरतो [जागरिते] मयम् ॥ प्रातः सूर्यचारवंशेन स्वपुरीमार्ग विज्ञाय द्वावपि चलितो । तृट् लग्ना भृशं, राजाऽवगमन्त्रिन् ! विलोकय जलादिस्थानं कुत्राप्युच्चैश्चटित्वा । भूपादेशं प्राप्य तावत् वृक्षे चटित्वा 15 दूरत । नीलशार दलकाक.पतनादि च दृष्ट्वाप्राह मन्त्री
राजनितो दिशि प्राच्यां, संभाव्यते पयः स्थितिः । शाड्बलबहुलप्रांशु-वनकाकादिसंभवात् ॥२०॥ दृश्यन्ते बहवो वृक्षा, घनपत्रसमन्विताः । काकाः कलरचो यत्र, तत्र तोयं भविष्यति ॥२१॥
20 रानाने उपरि स्थितो दिशमुक्त्वा स्वयं च दिशं स्थिरीकृत्य वृक्षादुत्तीर्य मन्त्री भूपपार्श्वे आगात् । ततो दिगनुसारेण द्वावपि तत्र पूर्वदृष्टवने ययतुः, दृष्टं महासरः, चटितो पालिं यावत् तावदृष्टं शुष्कं सरः खिन्नो द्वावपि । चिन्तितमहो कर्मणां गतिः। तृट् लग्ना पानीयं तु न प्राणायास्यन्ति । मन्त्री प्राह-राजन् ! काकसंभवाव कुत्रापि जलं भविष्यतीति प्रोक्त्वाच्य] राजानं पालितरुच्छायाया मुक्त्वा जलभाजनं लात्वा काकानुसारतः सरःपार्श्व भ्रमन् महती वापी 25 जलपूर्णां दृष्ट्वा मन्त्री मुमुदे, समुद्रश्चन्द्रोदयमिव । मध्ये प्रविश्य जलभाजनं पानीयभृतं कृत्वा यावत्त्वरितं निस्सरति तावद्भित्तौ प्रशस्ति प्रेक्ष्य वाचयामास, तन्मध्ये एकं वाचयति, यथा
तुल्यार्थं तुल्यसामर्थ्य मर्मज्ञं मन्त्रिणं दृढम् ।
अर्धराज्यहरं सद्यो, यो न हन्यात्स हन्यते ॥२२॥ चिन्तितं मन्त्रिणा कदाचिद् भूपोऽत्रागमिष्यति तदा मां मारयिष्यत्येव । तेन कईमेन श्लोका- 30 क्षरान स्थगयित्वा यास्यामीति कृत्वा श्लोकं कर्दमेनाच्छाद्य पानीयं लात्वा राजपाच गतः । राजा.
"Aho Shrutgyanam"