________________
६२ ]
प्रबन्धपञ्चशती राजाऽन्योक्त्या स्वयमेवावबोध्य स्वगृहे गत्वा सुष्वाप ।
इतोऽकस्माद्वैरोचनो विदेशाद् गृहे यावद्रात्रावागच्छति, तावद्भपवाह निकां दृष्ट्वा चकितो दध्यौ-किमत्र राजाऽऽगतोऽभूत् । यावद्विलोकयति सम्यग् तावत्पनीकाहनिको न पश्यति च
चिन्तितं-तून राजाऽत्रागतो मम गृहे, स्त्रीणां पुरुषाणां च चरित्रस्य पारं न पायते । यदि 5 भार्यापृच्छयते तदा कूटजल्पनाद्देवचक्रेण भस्मीभवति तेन राजैव पृच्छयते एवं विमृश्य भार्या
मुत्थाप्य माङ्गल्यच्छलेन भूपवाह निका छत्रोपरि संस्थाप्य' पञ्चशब्दपूर्व वैरोचनः भूपपार्श्व गत्वा प्रणनाम छब्बामग्रे मुक्त्वा प्राह च
दृषाक्रान्तो गतो हस्ती, पयःपातुं सरोवरे ।
पीतं नवेति वक्तव्यं, सत्यं राजन् ! त्वयाऽधुना ॥१४॥ 10 राजा चकितः स्वं रूपं मत्वा प्राह
तृषाक्रान्तो गतो हस्ती, पानीयं पातुमुद्यतः ।
दृष्ट्वा सिंहपदौ तत्र, न पीतं वारि शीतलम् ॥१५॥ ततो राजा स्वपदौ विलोकयति यावत्तावत् स्त्रीवाह निकामुत्तार्य छन्नां कृत्वा पुनः प्राह
सत्यं सिंहो गतस्तत्र, पानीयं पातुमुद्यतः । 15
सत्यं कीरोदितं सर्व, न पीतं शीतलं पयः ॥१६॥ ततः वर्द्धापनागतां वाहनिका परिधाय स्त्रीवाहनिको स्थालोपरि मुमोच । वैरोचनेन सर्व झातं, राजा झा] मन्त्री मानितः, मन्त्री पञ्चशब्दपूर्व राजपथेन पश्चाद्गृहे आगतः । भायो पृष्टा सती सत्यं प्राह राजपार्श्वगमनादिस्वरूपं भार्याने प्रोक्त्वाच्य] दध्यौ हृदि धन्येयं भार्या, शुको धन्यः, राजापि धन्यः, भाग्यं विनैवं योगो न लभ्यते, यतःपत्नी प्रेमवती सुता सुविनयो भार्या गुणालङ्कृता,
स्निग्धो बन्धुजनः सखातिचतुरो नित्यं प्रसन्नः प्रभुः । निर्लोभोऽनुचरः परार्चिशमने प्राप्तोपयोगं धनं,
कल्याणाभ्युदयेन सन्ततमिदं कस्यापि संपद्यते ।। राज्ञा ग्रासो वर्द्धितः । अर्द्धराज्याधारोऽभूत् । मन्त्रिणश्चत्वारः पुत्राः क्रमादभूवन् । अन्येद्यः 25 सभायां मन्त्रियुतो राजा यावदुपविष्टःतावदकस्माद्वनपालक आगात् भयभ्रान्तचेताः प्रोवाचैवं च
देवाद्य नन्दनोद्याने, महाकायः किरिः कुतः । उन्मूलयंस्तरूनाम्र-कदल्यादीन् समाययौ ॥१७॥ श्रुत्वैतद्भूपतिर्दध्यो, मयि शासति मेदिनीम् । उपद्रवः कथं पुंसां, जायते नूनमंशतः ॥१८॥
20
"Aho Shrutgyanam"