________________
प्रथमोऽधिकारः
[६१
15
राजाऽवग
कीर ! पण्डितचार्वाक !, जनानामतिवल्लभ !
परनिन्दा न कर्तव्या, परचिन्तां परित्यजेत् ॥५॥ शुकोऽवग
अपूर्वा दृश्यते वाणी, वृत्तिर्भक्षति चिर्भटान् ।
तस्मिन् देशे न यातव्यं, यतो रक्षा ततो भयम् ॥६॥ राजाऽवग--
यस्मिन् रुष्टे भयं नास्ति, तुष्टे नैव धनागमः ।
आगमो निर्गमो नास्ति, स रुष्टः किं करिष्यति ॥७॥ राजा शुकवचनमवगणय्य यावदग्रतोऽचालीत् तावदने मार्जारः फेत्कारान् भृशं कुरुते स्म। 10 शुकः पुनर्मार्जारं कन्दन्तं श्रुत्वा प्राह राजि [राशि] शृण्वति
मा त्वमानन्द मार्जार ! नन्दो राजा न तस्करः ।।
अमृते विषमुत्पन्न, यतो रक्षा ततो भयम् ॥८॥ राजाऽवग
न पश्यन्ति हि जात्यन्धाः कामान्धो नैव पश्यति ।
नहि पश्यति मदोन्मत्तः, अर्थी दोषान पश्यति ॥६॥ ततोऽबमन्य शुकं भूपमागच्छन्तमकाले दृष्ट्वा मन्त्रिपली शय्या मुक्त्वा एकतः स्थित्वा माह
राजन् ! शान्तिं व्रजाहाय, रक्ष देहं धनादिकम् ।
मन्त्रीशस्ते सुतो नूनं, कीरवाक्यप्रजन्पनात् ॥१०॥ राजा मन्त्रिपत्नीवचः श्रुत्वा ध्वनितशिरः[गिरा] प्राह
सत्यं सत्यं पुनः सत्यं, सत्यं च कीरभाषितम् ।
वैरोचनः सुतो मेऽयं, स्वं च कुलवधूमम ॥११॥ इत्येवमुक्त्वा लज्जितो राजा शीघ्र मन्त्रिपत्नीवाह निकां परिधाय स्वीयांच] तत्र विस्मृत्य कीरपार्श्वे भूत्वा द्वारमेत्य द्वास्थं प्रति प्राह
25 अमृतं मधुसंयुक्तं, वणिगपुत्रगृहे न तु |
न पपो नृपतिस्तत्र, पश्चादर्पय कुण्डलम् ॥१२॥ द्वास्थोऽवग
वारिमध्यस्थिता गावः, पिवन्ति न पिबन्ति च । निर्दोषास्तत्र गोपाला, हारितं रत्नकुण्डलम् ॥१३॥
30
"Aho Shrutgyanam"