________________
६.]
प्रवन्धपश्चशती
अन्यदा गवाक्षस्थोऽहन्नको मातरं पुत्रवियोगदुःखितां दृष्ट्वा दध्यौ-अहं पापी, मया माता दुःखे पातिता भोगसुखलीनत्वात् । ततस्तत्राभ्येत्य मातुः पदोः पतित्वाऽर्हन्नकः क्षमयामास । माता स्वस्थाऽभूत् पुत्रचरित्रं जज्ञौ । अम्बया संसारासारतां प्रदर्य बोधितोऽपि न व्रतं ललौ दुष्करत्वात् । ततो मातृवचसा पादपोपगमनाशनं गृहीत्वा स्वर्ग गतोऽर्हन्नदत्तकः क्रमान्मुक्ति गतः ।
इति परीषहसहनेऽहंन्नककथा ॥१०॥
[ 102 ] परद्रोहोपरि वैरोचनमन्त्रिकथा । परद्रोहादिकं पापं, कुस्तीमिहागवान् ।
वैरोचन इवासातं, लभते मरणादिकम् ॥१॥ तथाहि-विशालायां नगर्यां नन्दाभिधो भूपो न्यायी बभूव । अन्येद्यराखेटकं कृत्वा पश्चा10 दागच्छन् पुरासन्नसरोवरे रजकं वस्त्राणि क्षालयन्तमपश्यत् नन्दभूपः । नन्देन तत्रैका शाटिका
धौत्वो तो]त्सारिता तापे रजकेन मुक्ता दृष्टा । तस्यां चोपरि भ्रमरानुपविष्टान् वीक्ष्य राजा चमत्कृतोऽन्तिकस्थं सेवकं पप्रच्छेति, किमेवमस्या उपरि भ्रमरा उपविशन्ति एवं कुत्रापि न दृश्यते भ्रमरास्तु सुरभिवस्तुन्येवागच्छन्ति । सेवकेन चतुरेणोक्तं-स्वामिन् ! पग्मिनी स्त्री भवति
तस्याः शाटिकायामेवंविधा परिमलो भवति धौतायामपि । ततो रजकः पृष्टः कस्यै इयं शाटिका ? 15 रजकोऽवग-वैरोचनमन्त्रिणः पत्न्याः । राज्ञोक्तं-भो प्रधान ! वैरोचनमन्त्रिपत्नी तु पद्मिनी
विद्यते । ततो राना गूढहृदयः पद्मिनी स्त्रियं पट्टराज्ञी कर्तुं सर्वत्र सेवकान् विलोकनाय प्रेषयामास । सैवकैः कुत्रापि न ज्ञाता पद्मिनी। ततो भूपोऽने प्रोक्तं-कुत्रापि न ज्ञायते पविग्रन्युत्पत्तिः। राजा दध्यौ यदि पद्मिनी स्त्री पट्टराज्ञी न स्यात्तदा मम राज्यप्राप्तिरपि निःफला । मन्त्रिपत्नीं भोक्तुकामो
राजा वैरोचनमन्त्रिणं दूरदेशं व्यापाराय प्रेषयन् , ( राजा तु) रात्री एकाकी मदनविह्वलो 20 मन्त्रिगृहद्वारमागत्य द्वाःस्थं प्रति प्राह
आगतो द्वारि भूपालः, प्रतिहारो न मुञ्चति ।
दैन्यं प्रोक्त्वा[च्य]च कामान्धा, प्रददौ रत्नकुण्डलम् ॥१॥ ततोऽप्रतो गच्छन् द्वितीयद्वारे याति, तावद्राजानमागच्छन्तमकाले दृष्ट्वैकाकिनं शुकोऽवग
श्रीभूपनन्दराजेन्द्र !, तव पादौ प्रणौम्यहम् । 25
वैरोचनः क्व च प्रैषि, कि कार्य पुत्रमन्दिरे ॥२॥ राजा शुकं प्रति प्राह
वासरेऽपि क्षुधा नास्ति, निद्रा रात्रौ न विद्यते ।
मम कीर ? महदुःखं, हृदये वसति कामिनी ॥३॥
शुकोऽवग30
स्त्रियोऽर्थे च हतो वाली-रामेण रावणो हतः । परगेहे न यातव्यं, परदारान् परित्यजेत् ॥४॥
"Aho Shrutgyanam"