________________
प्रथमोऽधिकारः
[ ५९ भुक्तधनेन सोमिलकस्य भोजनं दत्तं तेन बहुव्ययः कृतः कृतोऽयमुद्धारविधि दास्यति यतः सर्वमनेन व्यवहारगृहादानीतमस्ति । स प्राह-भो कर्मन् ! मम कृत्यमेतत् परिणतिश्च त्वया दत्ता । अथ प्रभाते कोऽपि राजपुत्रो भूपप्रसादलब्धं धनं भुक्तधनायादात्, संचयरहितोऽपि वरं भुक्तं, मुक्तधनं यदि विधिरर्पयति तन्मां विधिर्मुक्तधनतुल्यं करोतु विधिस्त्वधिकं न सहते धनं मम, ततः सोमिलः सन्तोषं कृत्वा तस्थौ । इति भाग्ये सोमिलकथा ॥९॥
[ 99 ] शीतपरिषहसहने चतुःसाधुदृष्टान्तः । राजगृहे पुरे चत्वारो वणिजो वयस्याः सन्ति स्म । अन्यदा तैः सोम-मोम-कमलधननामभिर्धम॑ श्रुत्वा श्रीमद्रबाहुसूरिपार्श्वे संयमं गृहीत्वा बहुश्रुतीभूय गुर्वादेशात्ते विहरन्ति स्म । ते च यत्रार्कोऽस्तमेति तत्र तिष्ठन्ति स्म। रात्रौ अन्येद्यस्तेषां मध्ये एकोऽतीवशीते पतति वैभारगिरिपार्श्वेऽस्थात् । द्वितीय उद्याने । तृतीयः उद्यानोपान्ते । चतुर्थः पुराभ्यर्णेऽस्थात् । तेषां 10 मध्ये यो गिरिगुहापाद्येऽस्थात् स ध्यानं कुर्वन् प्रथमयामे मृतः । उद्यानस्थो द्वितीये । उद्यानोपान्तस्तृतीये । पुरोपान्तस्थः पुरजनतापतश्चतुर्थप्रहरे मृतः । चत्वारोऽपि स्वर्गे ययुः ॥
इति शीतपरीषहसहने चतुःसाधुदृष्टान्तः ॥१९॥
[ 100 ] अथ दण्डालक सिद्धिः । अरिमईनभूपस्याऽऽसनस्थितस्य कोऽपि सिद्धः पुमान् समागात् । तदा आसनं मया तस्योप- 15 वेशाय स्थापितम् । स सिद्धोऽवग् त्वं वर्योऽसि, मम नीचस्यासन प्रदानात् । तदा राजाऽवगभूपस्याऽऽसनस्यान्तरं विद्यते । ततो जगौ--अहं तव स्वर्णसिद्धिं दातुमागाम्, त्वया विनयो न कृतः। इत्युक्त्वा स्वं छात्रं मुक्त्वा व्योम्नि ययौ । ततो राजा खिन्नोऽवग-भो छात्र ! मया विनयो न कृतोऽतः परं करिष्यते, त्वमाकारय स्वं गुरुं । ततः छात्राऽऽकारितस्तत्रागात् । भूपेन स्वर्णसिद्धौ मान्तिायां सिद्धो योग्यवग् यतः-सौवर्णिकेषु दण्डालक इति मम नाम दाप्यते तदा 20 स्वर्णसिद्धिं दास्ये । ततस्तेन सौवर्णिकेषु दण्डालक इति नाम ददे । इति दण्डालकसिद्धिः॥१०॥
[ 101 ] परीषहसहने अर्हन्नककथा । तगरापुयाँ दत्तो, भद्रा पत्नी, अर्हन्नकसुतयुतो गुरुपाद्ये व्रतं ललौ। साध्वी साध्वीपार्श्वेऽस्थात् । दत्तः पुत्रयुग्गुरुपार्श्वे तस्थौ । दत्तः स्नेहवशात् पुत्रं विहन्तुं न प्रेषयति स्वयमेवानीय मिष्टाऽऽहारादि दत्ते पुत्राय दत्तर्षिः। क्रमाद्दत्ते दिवंगते अहन्नकः शुचं पितुमृतेर्धत्ते पञ्चदिनानि 25 साधुभिर्गौरवितः । अन्यदैकेन मुनिना भिक्षायै सार्द्ध स नीतः तदा बाढं निदाघे सुकुमाराङ्ग. त्वात्स क्षुल्लो(कः) दह्यमानः उत्पपातोर्ध्वमधश्च तृषालग्नो कस्यचिद् गृहगवाक्षछायायामगात्स तदा तं देवकुमाराभं दृष्ट्वा काचित्प्रोषितप्रिया स्त्री गवाक्षस्था कामवशगा चेटीपार्धात्स्वगृहान्तर्नीत्वाऽवग-किं तव [तुभ्यं] रोचते । इत्युक्त्वा पञ्चषा मोदका दत्ताः । तथा भाषितश्चेति तया, किं त्वया वयसीदृशे व्रतं गृहीतं मया सह भोगान् भुव, पश्चाद्वार्द्धकत्वे यद्रोचते तत्कर्त्तव्यम् । एवं 30 तया लोभितस्तत्रास्थात् क्षुल्लो भोगान् भोक्तुम् ।
इतः साधुभिर्विलोकितोऽपि न दृष्टः । तस्य माता साध्वी पुत्रगमनत्वाद् दुखिताऽभूत् ।
"Aho Shrutgyanam"