________________
५८ ]
प्रन्धपञ्चशती
कस्मिंश्चित्पुरोपान्ते वने वा प्रलम्बवृषणाह्नः शण्डोऽभूत् । स च मदातिरेकात् परित्यक्तयूथो नदीतानि शृङ्गाभ्यां विदारयन् स्वेच्छया शस्यानि भक्षयन् अरण्यचरो बभूव ।
अथ तथैकः शृगालो वसति स्म । भार्यया सह कदाचिन्नदीपुलिने उपविष्टो विद्यते । एतस्मिन्नवसरे तस्य दृग्गोचरे प्रणम्बवृषणः समागात् । तस्य शण्डस्य प्रलम्बवृषणौ दृष्ट्वा शृगाल्या 5 शृगालोऽभिहितः स्वामिन् ! पश्यास्य वृषभस्य मांसपिण्डौ लम्बमानौ यथा स्थितौ क्षणेन प्रहरेण दिनेन वा पतिष्यत एतौ एवं ज्ञात्वा भवानस्य पृष्ठे यातुमर्हसि । शृगालोऽवग्- प्रिये ! न ज्ञायते कदाचिदेतौ पतिष्यतो वा न तत्किं मां श्रमाय नियोजयसि । अत्रस्थ एव तौ पतितौ त्वया सह भक्षयिष्यामि, अथवा अस्य पृष्टौ यास्याम्यहं । यदि तदात्मीयस्थानमन्यः कोऽपि समेत्याश्रयिष्यति तदेतत्कर्त्तुं न युक्तम् । उक्तं च
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति, अध्रुवं नष्टमेव च ॥ १॥ साऽब्रवीत् एतद्वचनं कापुरुषस्यैव, यतः— यत्रोत्साहसमालम्बो, यत्रालस्यविहीनता । नय - विक्रम संयोग — स्तत्र श्रीरखिला ध्रुवम् ||२| यथा च-न दैवमिति संचिन्त्य, स्यजेदुद्योगमात्मनः ।
उद्योगेन विना तैलं, तिलेभ्योऽपि न जायते ||२||
10
15
20
यच्च त्वं वदसि एतौ पतिष्यतो नवा इति वक्तुं न युक्तम् । ततः प्रियाप्रेरितो जम्बूको मूषकादिभक्ष्यं त्यक्त्वा तयोर्वृषणयोर्वाव्या तस्य शण्डस्य पृष्टौ बभ्राम सप्रियः, न च तयोः पतनमभूत् ततः पचदशे वर्षे निर्वेदात्स भार्यामाह—
शिथिलाच सुबद्धाश्य, पतन्ति न पतन्ति च । निरीक्षिता मया भद्रे, दश वर्षाणि पञ्च च ॥१॥
ततः पचादपि नैतयोः पतनं भविष्यति तमेव मूषकमार्गमनुसरावः । अतोऽहं ब्रवीमि - 'शिथिला सुबद्धाश्चेति' तदेवं धनवान्सर्वोऽपि स्पृहणीयो भवत्यतो देहि प्रभूतं धनं । पुरुषोऽवग् यदि एवं तद् गच्छ वर्द्धमानपुरम् । तत्र द्वौ वणिजौ धनगुप्तधनाख्यौ स्तः, तयोश्चेष्टितं बुद्ध्वा 25 प्रार्थनीयं त्वया । ततः सोमिलकोऽपि विस्मितो वर्द्धमानपुरं गतः, सन्ध्यायां श्रान्तः सन् धनगुप्तगृहे गतः । धनगुप्तभार्यापुत्रादिभिर्निर्भर्त्स्यमानोऽपि गृहाऽजिरोपान्ते उपविष्टः । तत्र भोजनवेलायां भक्तिवर्जितं भोजनं प्राप । तत्रैव सुप्तो यावन्निशिथे तावत्पश्यति द्वौ नरौ मन्त्रयन्तौ तत्रैकोऽब्रवीत् भो कर्त्तः ? किं त्वयाऽस्य धनगुप्तस्याधिको व्ययो निर्मितो यदस्य सोमिलस्यानेन भोजनं दत्तं तन्न युक्तं कृतं त्वया । द्वितीयः प्राह - भो कर्मन् ! ममात्र न दोषः, मया लाभः कृतोऽस्य 30 तत्परिणतिस्तु त्वया व्यतारि । अथ यावदुत्तिष्ठति तावद्धनगुप्तस्य छर्दिकादोषेण द्वितीयेऽहनि खिद्यमानस्य उपवासः पतितः । ततः सोमिलको भुक्तधनगृहे गतः, तेनापि भोजनं दत्तं सन्ध्यायां सुखसमाधौ सुप्तः, तथैव रात्रिमध्ये नरौ द्वावभ्येत्योचतुः । एकोऽब्रवीत् भो कर्त्तः ? अद्यानेन
" Aho Shrutgyanam"