________________
[ ५७
प्रथमोऽधिकारः उद्यमेन हि सिध्यन्ति, कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य, पतन्ति वदने [प्रविशन्ति मुखे] मृगाः ॥६॥ अपरं च-स्वशक्त्या कुर्वतः कर्म, सिद्धिश्चेन्न भवेद् भुवि ।
नोपालभ्यः पुमांस्तत्र, दैवान्तरितपौरुषम् ॥१०॥ तदवश्यं मया देशान्तरं कर्त्तव्यमित्युक्त्वा [गन्तव्यमित्युक्त्वा] वर्द्धमानपुरं गतः। 5
अथ तत्र वर्षत्रयं स्थित्वा सुवर्णशतत्रयोपार्जनं कृत्वा भूयोऽपि स्वगृहं प्रति प्रस्थितः । अथार्द्धमार्गे महाटव्यां गच्छतस्तस्य रविरस्तंगतः । तदसावात्मभयाद्वटवृक्षस्य स्थूलशाखामारुह्य यावत्सुप्तः तावन्निशीथे स्वप्ने द्वौ पुरुषो ऋद्वौ मिथो जल्पन्तौ शृगोति, तत्रैकः प्राह भो कत्तः ! त्वं बहुधा मया निवारितोऽसि यथाऽस्य सोमिलकस्य भोजनाच्छादनादि]धिका श्री स्ति अतो भवता कदाचिदपि तदधिका श्रीन देया। तत्कथमस्य सुवर्णशतत्रयं प्रदत्तं । स प्राहापरः-भो कर्मन् ! 10 अवश्यं मया व्यवसायिना व्यवसायानुरूपं फलोदयो देयः । तस्य च परिणतिस्वया दत्ता, इत्यतस्त्वमेवापहरेति । तत् श्रुत्वा यावदसौ प्रबुद्धः सन् सुवर्णप्रन्थिमन्वेषयति तावद्रिक्ता प्रन्थिः स्वर्णैस्तेन दृष्टः, ततश्चिन्तयामास-अहो मया कष्टनार्जितं धनं हेलया गतं, तद्वयर्थः श्रमः । ततो धनरहितोऽहं कथं भार्यादीनां मुखं दर्शयिष्यामीति । भूयोऽपि वर्द्धमानपुरं गतः, तत्र च वर्षमात्रेणापि सुवर्णशतपश्चकमजैयित्वा भूयोऽपि स्वगेहं प्रति अन्यमार्गेण चलितः । मार्गे रविरस्तं 15 गतः तदा न्यग्रोधे स तस्थौ । कष्टं कष्टं भोः किमेवारब्धं, दैवहतकेन पुनः स एव न्यग्रोधरूपी राक्षसः संप्राप्त, इत्येवं चिन्तयन् स्वप्नायमानः स वृक्षशाखायां द्वौ पुरुषावपश्यत् । तन्त्रकोऽवग-भो कर्तः ! किं त्वयैतस्य सोमिलकस्य निर्भाग्यस्य स्वर्णशतपञ्चकं दत्तं, किं न वेत्सि भवान् यद्भोजनाच्छादनादृतेऽस्याभ्यधिकं नास्ति । अपरः प्राह-~भो कर्मन् ! मयाऽवश्यं देयं व्यवसायिनां तस्य परिणामस्त्वया व्यतारि, तकिमुपालभसे । तत् श्रुत्वा यावदसो सोमिलको 20 प्रन्थिमन्वेषयति तावद्रिक्तः ततः परमवैराग्यसंपन्नो व्यचिन्तयत् अहो मा धिग् , किं जीवितेन धनं विना, ततोऽत्र वटवृक्षस्य शाखायामात्मानमुद्रध्य प्राणत्यागं करोमि । एतद्ध्यात्वा यावच्छाखायामात्मानमुद्घध्य निक्षिपति तावदेकः पुमानाकाशस्थोऽवग-मो सोमिलक ! किमेवं साहसं कुरुषे । स एवाहं वित्तापहारी यत्तव भोजनाच्छादनाधिकां श्रियं न सेहे, तद्गच्छ गृहं तथा न मे स्थाद्वयर्थ दर्शनं तत्प्रार्थ्यतामभीष्टं वरमिति । सोमलिक आह-यद्येवं तदेहि मे 25 प्रभूतं धनं, सोऽब्रवीत्-भद्र ! किं करिष्यसि भोगत्यागरहितेन धनेन यतो भोजनाभ्यधिको नास्ति तव भोगः । सोमलिकः प्राह-यद्यपि भोगो न भवति तथापि तद्भवतु, उक्तं च, यतः
कृपणोऽप्यकुलीनोऽपि, सदा धनविवर्जितः । सेव्यते च नरो लोकै-यस्य स्याद्वित्तसंचयः ॥१॥ शिथिलाश्च सुबद्धाश्च, पतन्ति न पतन्ति च ।
निरीक्षिता मया भद्रे, वर्षाणि दश पंच च ॥२॥ अस्य सम्बन्धः कथ्यता, तथाहि
30
"Aho Shrutgyanam"