________________
प्रवन्धपञ्चशती
[98 ] अथ भाग्ये सोमिलकथा । सप्तद्वीपाधिपस्यापि, तृष्णा यस्य विसप्पिणी ।
दरिद्रः सतु विज्ञेयः, सन्तुष्टः परमेश्वरः ॥१॥ किंच-दानेन तुल्यो निधिरस्ति नान्यः, सन्तोपतुल्यं धनमस्ति नान्यत् ।
विभूषणं शीलसमं कुतोऽस्ति, लाभोऽस्ति नारोग्यसमः पृथिव्याम् ॥२॥ न चैवं ध्यातव्यं यदर्थच्युतोऽहं कथं वर्त्तिष्ये । यतो वित्तं हि विनाशि स्थिरं च पौरुषम् । उक्तं च
सकृत्कन्दुकपातं हि, पतत्यार्यः पतन्नपि ।
कातरस्तु पतत्येव, मृत्पिण्डपतनेन हि ॥२॥ 10 किं बहुना कार्य केचित्तरा धनभोगभागिनः केचिच्च रक्षितार एव भवन्ति । तथा चोक्तम्-अर्थस्योपार्जनं कृत्वा, नैव भोग्यः समश्रुते ।
अरण्यं महदासाद्य, मूढः सोमिलको यथा ॥३॥ तथाहि-अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम तन्तुवायः । स चानेकविधरचनारजितानि पार्थिवजनोचितानि वस्त्राणि सदैव विदधाति । परं भोजनादधिकधनं न संपद्यते । ये 15 चान्ये स्थूलवस्त्रसम्पादकाः कोलिकास्तान लक्ष्मीवतो वीक्ष्य भायाँ प्रति प्राह-प्रिये नात्र स्थातुं युक्तं, भार्याऽवग-भो प्रिय ! मिथ्यावच इदं यदन्यगतानां धनं भवति उक्तं च
न हि भवति यन्त्र माव्यं, भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति, यस्य च भवितव्यता नास्ति ।। ४ ।। यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म, करिमनुधावति ॥५॥ यथा छायातपौ नित्यं, सुसंबद्धौ परस्परम् ।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥६॥ तस्मादत्रैव तिष्ठ, व्यवसायं विना न कर्म फलति । उक्तं च
न यथैकेन हस्तेन, तालिका संप्रपद्यते । तथोद्यमपरित्यक्तं, न फलं कर्मणः स्मृतम् ॥७॥ पश्य कर्मवशात्प्राप्तः, भोज्यकाले च भोजनम् । हस्तोद्यम विना वक्त्रे, प्रविशेन कथंचन ॥८॥
25
"Aho Shrutgyanam"