________________
प्रथमोऽधिकारः कथयति हरिपालः धर्मध्यानभङ्गो भवति मम तेन नागच्छामि । सान्तुः स्वयं तत्रागतः, उक्तं च राज्ञा तवाकारणायाहं प्रेषितः। आगम्यता, तेनोक्तं-साम्प्रतं देवपूजावसरः, अतो मव्यं संजातं, त्वं साधर्मिको मम गृहमागतः । कुरु देवपूजा, कुरुष्व भोजनं यथा गम्यते । अमात्येन तथैव कृतं । भोजनानन्तरं सुखासनारूढौ राज्ञः समीपे गतौ । राज्ञोक्तं-काका ? सर्वावसरे किमद्यकल्ये नागम्यते ।
हरपालेनोक्तम् । आर्ता नरा धर्मपरा भवन्ति । तथा त्वमात्तौ सत्यां 'काका' कथयसि, अन्यथा नामापि न गृहासि । राज्ञोक्तं-पूर्ण हास्येन, किन्तु तथा क्रियतां यथा मम नाम न याति । सेनोक्तं-देव दाप्यतां दाप्यतां भव्या सारलोहमयी मुष्टिः क्षुरिकाया । राज्ञा दापिता । अष्टदिनावधिं कृत्वा हरपालः स्वगृहमागात् । तस्याः क्षुरिकायाः शर्करामयं फलकं कारितं तथा यथा चन्द्रहासलोहभ्रान्ति प्राप्ता । गजवेलीतल्याऽभूत् सा प्रतिका(हा)रश्च स्वर्णमयः 10 कारितः सान्तहस्ते प्रदत्ता राज्ञोऽग्रे तत्स्वरूपं धीप्रपञ्चयुक्तं निवेदितं । प्रगे राजा सभायामुपविष्टः, सिद्धिबुद्धिरउलाणीद्वयं तत्रागात् । मन्त्री प्राह-राजन् ? रउलाण्योर्बहूनि दिनानि ययुः । किमपि कलां दर्शय । कामप्यनयोः कलां विलोक्य विसर्ग्यतां च, यदा तेनेत्थं सरोषमुक्तं, तदा राज्ञा सबहुमानं रउलाणीद्वयं पृष्ट-भो! कथ्यतां भवतीभ्यां का कला ज्ञायते, को गुरुयुवयोः ? ताभ्यामुक्तम्-अचलनाथो गुरुरावयोः । राज्ञाऽप्युक्तमस्माकमपि स एव गुरुः।
15 अत्रान्तरे प्रतीहारः समागतः, प्रणामं कृत्वा देव ! कल्ये कटकाधीश्वरेण प्रमाडिभूपेन भवतां कृते प्राभृतं कृतमस्ति । राज्ञोक्तं-किं किम् ? प्रतीहारेणोक्तं द्वारे सन्ति अमात्यास्त एव निवेदयिष्यन्ति । राज्ञा समाकारिताः। आयाताः, प्रणामं कृत्वा व्यजिज्ञपन्-देव ! षोडश रूप्यहस्तिनः, द्वादशपेटिकामडिभृताः, पृष्टौ प्रयाणकत्रये सन्ति । देव ! तव कृते बङ्गालदेशाधीशेन क्षुरिका भव्या बहुवस्तुयुता प्रेषिताऽभूत् । सा क्षुरिका प्रमाडिभूपेन प्रेषिताऽस्ति । राज्ञोक्तं 20 प्रथमं निष्काश्यता, तेन स पट्टकूलविण्टनकसप्तमध्यान्निःकाश्य राज्ञः करे समर्पिता। राज्ञा स्वयं दृष्टा वर्णिता च । सभासदान् प्रदर्शिता । प्रत्येकान्यैरपि वणिता । सिद्धिबुद्धिरउलाणीभ्यां दृष्टा वर्णिता। राज्ञः करे पुनः समपिता । तत्रान्तरे सान्तूकेनोक्तं-देव ! पूर्णमपराभिर्वार्ताभिः, रउलाणीभ्यां सह क्रियतामालापः। दर्शनीया निजा कलाः। विलोकनीयाश्च प्रतिकूलाः । राज्ञोक्तंदर्शय स्वाः स्वाः कलाः। ताभ्यां द्वासप्ततिकलादिकौशल्यं दर्शितं । मन्त्रिणोक्तं-त्वं स्वां का 25 दर्शय । राज्ञोक्तं यथायुक्ति उच्यताम् । मन्त्रिणोक्तम् , इयं लोहमयी क्षरिका भक्ष्यताम् । अपररुक्तम् आः ईदृशं सद्वस्तु न भक्ष्यते । अमात्येनोक्तं-चेद्राज्ञ उदरे भव्यं वस्तु व्रजति तदा किमयुक्तं ? यावद्राज्ञा क्षुरिकाफलं भक्षितं तावदन्येन करे धृत्वोक्तं-देव ! युष्माभियथाऽऽत्मीयकला दर्शिता तत्फलकतीक्ष्णं सारमयं भक्षितं तथा रउलाणीभ्यामपि दयते कलास्तदा वरं, यावद्राजा मुष्टिमर्पयति तदा मन्त्री जगौ उछिष्टं मुष्टिकं कथं दीयते ? मन्त्रिणोक्तं-धातुषु छोतिने 30 लगति राजा वारिणा सह प्रक्षाल्य यावद्वदति (?) तावत्ताभ्यामुक्तं-देव ! त्वमेवेदृशशक्तियुक्तः युक्तं सिद्धचक्रत्तिनामबिरुदं तव, नान्यस्य शक्तिरीदशी । लोकः सर्वोऽपि विग्मितः । ते योगिन्यौ भूपं सन्मान्य स्वस्थानं ययतुः । पूर्वमन्त्रिणं बहुद्रव्यदानात्सन्मानयामास । राज्ञस्ततः श्री जयसिंहदेवस्य सिद्धचक्रवर्तिबिरुदं प्रकट्यभूत् ।।
इति सिद्धि-बुद्धिरउलाणीप्रबन्धः ॥९७।।
"Aho Shrutgyanam"