________________
५० ]
हट्टेषु घर्घरघर्षणं कुर्वन् पच विशोपकानर्ज्जयित्वा दिनव्ययं कुर्बाणो द्विःसन्ध्यमपि श्रमसूरिपार्श्वे प्रतिक्रमणादिपरस्तिष्ठति । अन्यदा रत्नपरीक्षाशास्त्रार्थं विज्ञाय तद्विषयेऽतीव कुशलोsafa | कदाचिच्छ्रीमसूरिपार्श्वे परिग्रहपरिमाणं गृह्णन् श्रीहेमसूरिभिस्तद्देह लक्षणविज्ञानविचक्षणैर्लक्षत्रयद्रव्यपरिमाणं कारितः । क्रमादाभडस्य पुत्रोऽभूत् । पत्न्या स्तन्यं न । तेन छागीं गृहे. 5 बिलासुरभूत् । कस्मिंश्चिदवसरे कस्यचिद्ग्रामसमीपे छागीयूथं अवाहे [आवाहे] पानीयं पिबन्तीं [ पिबन्तं ] ददर्श । एकस्याश्छाम्या जलं पिबन्त्या जलं द्विधाभूत् । तत्कण्ठे दवरकबद्धं मणिं वीक्ष्य तां छागीं द्रव्येण जग्राह । तद्रत्नं समुत्तेजयित्वा[समुत्तेज्य] सपादलक्षटङ्ककैः सिद्धराज - भूपस्य ददौ । ततो व्यवहारी जातः । एकदा मञ्जिष्ठावाहिकानि बहूनि विदेशादागतानि जग्राह । तन्मध्ये स्वर्णकुशा बहवो निर्गताः । ततःप्रभृति दिनेदिने वर्द्धन्त्या श्रियालङ्कृतः । ततः प्रतिवर्ष 10 श्रीशत्रुञ्जयस्य यात्रा महासमुदायेन चकार सः । जैनप्रासादा भूरिशः कारिताः । निजप्रशस्तिरहिताः जीर्णोद्धाराश्च । गुप्तवृत्या साधर्मिकेभ्यो धनं व्ययन् साधुभ्योऽन्न-पानवस्त्रादि च स्वं जन्म सफलीचकार ।
15
20
प्रपञ्चशती
30
छलिछन्नद्रुम इव, मृत्स्नाच्छादितसमस्तबीजमिव । प्रायः प्रच्छन्नकृतं सुकृतं शतशाखतामेति ॥ १ ॥ इति आम प्रवन्धो भाग्ये ॥९२॥
[ 93 ] अथ सम्यक्त्वे आम्रपटप्रबन्धः ।
,
'राजपितामह' इति बिरुदं वहन् श्रीआश्रमटोऽभवच्छीकुमारपालस्य मन्त्री, - द्वात्रिंशद्द्रम्मलक्षान् भृगुपुरवसतेः सुत्रतस्यार्हतोऽग्रे । कुर्व्वन् माङ्गल्यदीपं ससुरवरनरश्रेणिभिः स्तूयमानः || यो दादर्थिजाय त्रिजगदधिपतेः सद्गुणोत्कीर्त्तनायां ।
स श्रीमानात्रदेवो जगति विजयतां दानवीरोऽग्रयायी ॥१॥
कुमारे परलोकं प्राप्ते अजयपालो राज्ये उपविष्टः । ततः सर्वे मन्त्रिणस्तं भूपं नेमुः । आम्रभटेनोक्तं- देवबुद्धया वीतरागस्य, गुरुबुद्धया हेमचन्द्रसूरेः, स्वामिबुद्धया कुमारपालस्य नतिर्मया कार्या, नान्यस्य । (जैनधर्मवासितसप्तधातुरनमन् ) अजयपालेनोक्तः -- यदि मम प्रणामं 25 करोषि तदा ते जीवितव्यं भविष्यति, नान्यथा । ततः श्रीजिनबिम्बं प्रपूज्यानशनं गृहीत्वा संप्रामायाजयपालेन सार्द्धं प्रववृते, संग्रामं कुर्वन् जिनध्यानेन मृत्वाऽऽभटः स्वर्ग जगाम । यतः--- वरं भद्वैर्भाव्यं वरमपि च खिङ्गैर्धनकृते, वरं वेश्याचार्यो []वरमपि महाकूटनिपुणैः । दिवं याते दैवादुदयनसुते दानजलधौ,
न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ||२|| इति सम्यक्त्वे आम्रम प्रबन्धः ||१३||
"Aho Shrutgyanam"