________________
प्रथमोऽधिकारः [94 ] अथ शत्रुञ्जयोद्धारप्रबन्धः भृगुकच्छे शकुनिकाविहारोद्धारश्च ।
अन्येद्युः सुराष्ट्रीयं सुसरनामानं राजपुत्रं जेतुमुदयनमन्त्री कुमारपालेन चालितः शत्रुञ्जयपार्श्व गत्वा दध्यौ, रणे जीवितव्यसन्देह इति विमृश्य शत्रुञ्जये देवं नन्तुं गतः। स मन्त्री महापूजादीन विधाय रात्री प्रभोः पुरो ध्याने उपविष्टः । तदाऽकस्मान्मूषको दीपवर्त्तिमादाय प्रासादान्तर्गच्छन् दृष्टः, चिन्तितं च मन्त्रिणा-अयं प्रासादः काष्ठमयस्तेन कदाचिद्विध्वंसो भावो, 5 'तदा का गतिः, दीपवर्त्तिर्यिध्यापिता। ततो जीर्णोद्धारं चिकीर्षुरभिग्रहं लात्वोदयनः स्कन्धावारे आगमत् ।
तत्र गत्वा युद्धं वैरिणा कृतं, वैरिबले जिते वैरिण्यपि ह्तेऽकस्मात् शरः कुस्थानके लग्नः भूमौ पतितोऽश्वात् , ततः सकरुणं क्रन्दन् आवासे कटकमध्ये आनीतः पृष्टः, किं सेवकेन दुःखं विद्यते भवतः । तेनोक्तं-संग्रामे जयाजयो विद्यते एव । एक एवाभिग्रहो मे मनस्यपूर्णा- 10 ऽभूत् । सेवकेनोक्तं-कोऽभिग्रहः ?
उदयनः प्राह-श्रीशत्रञ्जये प्रासादोद्धारः, भूगकच्छे शकुनिकाविहारोद्धारश्चिन्तितः मया । तौ न जातो यावत्तौ न भविष्यतस्तावन्मया भूशयेनैकभक्तकराभिग्रहो लले । यदि मदीयावभिग्रहौ मम वाग्भट्टादयः पुत्राः शृण्वन्ति तदा ते पुत्राः सिद्धिं नयन्ते स्म ।।
ततः स्थगीकः, तेनोक्तं यावदहं भवतः पुत्राणामग्रे नाकथयिष्यं तावन्मम भवतः."15
ततः उदयनमन्त्री हृष्टोऽवग्-त्वमपि धन्यः पुनरेको मनोरथोऽस्ति, स्थगीका(?)ऽवग कथ्यतां द्वितीयोऽपि मनोरथः।
तत उदयनो जगौ-यदि साधवोऽत्रागच्छन्ति तदा ममाराधना कारयन्ति, ततः सद्गतिः स्यात, ततः कमपि वण्ठं साधवेषं कारयित्वाऽग्रे आनीतो, जिनबिम्बमानीतं. द्वौ प्रणम्याराधनां कृत्वा क्षमितः सर्वजीवः स्वर्ग गतः। वण्ठेनाप्रतः सम्यक्संयम आराधितः । तत्र स्वसेवकान् 20 मुक्त्वा उदयनस्य पश्चात् कटकं पत्तने आगतम् । उदयनमरणाभिग्रहग्रहणादिवृत्तान्तः सर्वः स्थगीकेन वाग्मट्टाऽऽम्रभट्टादीनाम प्रोक्तं । ततो द्वाभ्यामानवाग्भट्टाभ्यां द्वावभिग्रही गृहीतौ । ततस्ताभ्यां बहुद्रव्यज्ययाच्छीशत्रुञ्जये जीर्णोद्धारः कारयितुमारब्धः । वर्षद्वयेन शत्रुञ्जयप्रासादे निष्पन्ने पर्दापनिकायामागतायां तस्य सुवर्णजिह्वा कारिता । क्षणाद्वितीया प्रासादपतनज्ञापिका वर्दापनिकागता, तस्य हेमजिह्वाद्वयं कारितं । यतो मम पश्चात्क उद्धारः कारयिता, ततस्तत्र 25 गत्वा चतुःसहस्ररश्वैः शिलापट्टकः पृष्टः; किं क्रियते, तेनोक्तं-पूर्वसभ्रमः प्रासादो वातेन पातितः। यदि निर्धमः प्रासादः कार्यते तदा चिरं तिष्ठति, पुनः सन्ततिर्न भवति ।
ततस्तेनोक्तं--प्रासादकविधानात् भरतभूपपङ्क्तिलभ्यते तदा सन्तत्या किमेवं विमृश्य सं० १२११ प्रासादः पुनः कारितः । बाहडनाम्ना पुरं स्थापितं, तत्र त्रिभुवनपालविहारः कारितस्तत्र पार्श्वबिम्बं स्थापितं । तीर्थपूजाकृते चतुर्विशत्यारामान नागरं परितो व देवलोकस्य च 30 ग्रामवासादिकृतं
सप्तषष्टियुता कोष्टी, व्ययिता यत्र काश्चनी । स श्रीवाग्भट्टदेवोऽयं, वय॑ते न सुधैः कथम् ॥१॥
"Aho Shrutgyanam"