________________
प्रथमोऽधिकारः
[४९
मल्लिकार्जुनभूपपराभूतः कृष्णवदमः कृष्णच्छत्रालङ्कृतमौलिः कृष्णगू-रादिपटकुटीक:(?) पत्तनपरिसरेऽभ्येत्य स्थितः । स्वागमनं कस्यापि न ज्ञापितं तेन । इतः कुमारपालभूपेन बहिरागतेन पृष्टं कस्य ईदृशी सेना कृष्णाम्बरा ? तत एकेन नरेणोक्तं-मल्लिकार्जुनभूपपराभूतस्याम्बडस्य, सेनायां लज्जया बहिःस्थितोऽस्ति । ततो राज्ञा चिन्तितं यदीक्षी लज्जा तस्य तदाऽनेन मल्लिकार्जुनो वशीकरिष्यते । ततस्तमाम्बडं सन्मान्य पुनः सार[स]परिवारं तं वैरिणं जेतुं भूपश्चालयामास । ततश्चलन् । क्रमात्तेनैव वर्मना कुङ्कणदेशे गत्वा स द्विधा सैन्यं कृत्वान्तरा मल्लिकार्जुनं क्षिप्त्वा युद्धं कर्तुमाम्बडः सज्जोऽभूत् । क्रमादाम्बडो युद्धं कुर्वन् हस्तिस्कन्धात्पातयित्वा जगाद-स्मरेष्टदैवतं । ततोऽपि आम्बड़ेन मल्लिकार्जुनशिरच्छिन्नं, सुवर्णपात्रेण तच्छीर्ष स्थगयित्वा मल्लिकार्जुनशृङ्गारि. कोदिशाटीप्रभृतिवस्तूनि लात्वा पत्तनं प्रति चचालाम्बडः । ततः क्रमात्पत्तने जयजयेति बिरुदं कारयन्नात्मनः पुरमध्ये आम्बडः प्रविष्टः । तत्रात्मीयं मन्त्रिणं मुक्त्वा मल्लिकार्जुननृपस्य 10 समभ्येत्य श्रीकुमारपालनृपतेः पुरा प्रणामपूर्व मल्लिकार्जुनमस्तकं स्वर्णस्थगितं । शृङ्गारकोटिशाटिका १ । माणिकओ पच्छेवडओ २। पापक्षयंकरहारु ३। संयोगसिद्धिसिमा ४। तथा हेमकुम्भ ३२ मुटकषट । मुक्ताफलानां । श्वेतचतुर्दन्तहस्ती ११ पात्राणां १२० सार्द्ध १४ कोटिरूप्यटङ्ककान मुमोच । ततस्तानि शृङ्गारकोटिशाटिकादीनि आम्बडमन्त्रिणा प्राभृतीकृतानि दृष्ट्वा राजा जहर्ष, तत आम्बडमन्त्रिणो राजपितामह इति बिरुदं ददौ ।
15 इति मल्लिकार्जुनभूपजेता श्रीआम्बडप्रबन्धः ॥९॥
[91 ] अथोदयनमन्त्रिप्रवन्धः । मारुमण्डलवास्तव्यः श्रीमालवंशीय ऊदाभिधो वणिक वर्षाकाले घृतं विक्रेतुं गच्छन्कस्मिन्नामेऽन्तरा केदारान् रात्रौ बध्यमानान्प्राह-कस्य यूयं सेवकाः ? तैरुक्तं-वयममुकस्य कामुकाः, वणिजोक्तं मम कामुकाः कुत्र सन्ति ! ततः स ऊदाकः सकुटुम्बस्तत्र गत्वा वायटीय- 20 जिनायतने विधिवद्देवान् वन्दते स्म । तं तथा देवं वन्दमानं दृष्ट्वा कया छिम्पिकया श्राविकयोक्तं-कस्यातिथिर्भवान् ? तेनोक्तं-वैदेशिकोऽहं, भवत्या एव, ततः सुश्राद्धं तं मत्वा कस्यचिद्गृहे स्वद्रव्यदानेन छिम्पिकया भोजितस्तया स सकुटुम्बः। तृणमयं कुटीरकमपितं तस्य । सुश्रावकत्वात्तया कालेन प्राप्तविभवः ऊदाको गृहं कारयितुमिष्टिकानिचयं लात्वा खातं कारयन् महान्तं सेवधिं प्राप । ऊदाकेन सा छिम्पिका बहुद्रविणदानेन सन्मानिता । ततः लक्ष्म्या 25 उदयस्तस्याभवत्तेन 'उदयन' इति नाम जातं, यतः
कृतप्रयत्नानपि नैति कांचन, स्वयं शयानानपि सेवते परान् । द्वयेऽपि नास्ति द्वितयेऽपि नास्ति, श्रियःप्रचारो न विचारगोचरः ॥११॥
तेन कर्णावत्यामतीतानागतभविष्यच्चतुर्विशतिजिनसमलंकृतः प्रासादः कारितः । तत्र श्रीऋषभजिनो मूलनायकः कृतः । क्रमादुदयनमन्त्रिणस्तस्य पुत्राश्चत्वारः क्रमाद्भवन्-बाहडदेव'- 30 बाहर-आम्बड-सोल्लाः । इति उदयनमन्त्रिप्रबन्धः ॥११॥
[92] अथ भाग्ये आभडप्रबन्धः । . श्रीमालज्ञातीयः श्रीपत्तनवास्तव्य उच्छिन्नवंश्य मामडनामा वणिग्बभूव । कांस्यकारक
"Aho Shrutgyanam"