________________
४८ ]
प्रबन्धपञ्चशती
तथाहि-अमात्यपुत्रः,' राज्ञः(ज)पुत्रः, श्रेष्ठिपुत्रः,' सार्थवाहपुत्रः । एते सुहृदो मिथः, राजपुत्रेणोक्त-अहं पुण्यर्जीविष्यामि । अमात्यपुत्रेणोक्तं बुद्धथा । श्रेष्टिपुत्रेणोचे-रूपेण । सार्थवाहपुत्रेणोक्तं-अहं दक्षत्वेन जीवामि । ते चत्वारो विदेशं प्रति चलिताः। कस्मिंश्चिदुद्याने स्थिताः । दक्षः सार्थवाहपुत्रः पुरमध्येऽगात् । कस्यचिच्छेष्ठिनो हट्टे गतः। तदा तस्य हट्टे बहुप्राहकजनः समागात् । भूरिाभोऽभवत् । श्रेष्टिना ध्यातं--अस्य दक्षत्वेन मम बहुलाभोऽभूत् । ततः श्रेष्ठी जगौ-उत्थीयता, जिम्यते । सार्थवाहपुत्रोऽवग-वयं चत्वारो मित्रा: मित्राणि स्मः । एकैकं विना न जिमामः । ततः सर्वे तत्राकार्य श्रेष्टिना जिमिताः सदन्नदानात् । पञ्चरूपकव्ययस्तत्राभूत्।
द्वितीयदिवसे श्रेष्टिपुत्रः रूपवान् गणिकागृहे गत्वा शतमितप्रमाणं भोजनं लब्धवान्समित्रः ।
तृतीयदिने अमात्यपुत्रः पुरमध्ये गतः । द्वयोः सपत्न्योरेकस्मिन्पुत्रे विवादोऽभूत् । केन भङ्गतुं न शक्यते । तत्रामात्यपुत्रो जगौ द्विधाकृत्वाऽयं द्वयोर्दीयते तदा सपन्योक्तमेवं भवतु । मात्रोक्तं अस्या अयं भवतु। ततोऽमात्यपुत्रोऽवग-अस्या अयं पुत्रो ज्ञातव्यः, ततः सहस्रमिते रूप्यैर्जेमनं सर्वेषामभूत् ।
चतुर्थे दिने पञ्चदिव्ययोगेन राजपुत्रो राजाऽभूत्। ततः सर्वे सुहृदः सन्मानिताः राज्ञा त्रयाणां मित्राणां मनो मानयामास । गुरवस्तत्रागताः । गुरुपार्श्वे धर्म श्रुत्वा राजा पप्रच्छ-मया किं कृतं येन राज्यमभून्मम ? सार्थवाहपुत्रश्रेष्टिपुत्रा मात्यपुत्रैः किं कृतम् ? गुरवो जगुःराजन् ! त्वं पूर्वभवे श्रीधनः कौटुम्बिकोऽभूत्, गुरुपार्श्वे जीवदयामयं धर्म श्रुत्वा जीवदया शुद्धा पालिता, तेनान भवे राजाऽभूत् । सार्थवाहपुत्रेण प्राग्भवे गुरुभक्तिः कृता, तेनास्य दक्षत्वं जातं । श्रेष्टिपुत्रेण जिनस्य प्रतिमा एकदोज्वालिता तेनास्य रूपसम्पदभूत् । अमात्यपुत्रेण ज्ञानवतां भक्तिः कृता तेनाऽमात्यपुत्रस्य बुद्धिर्जाताऽत्र । धर्म श्रत्वा सर्वेऽपि सविशेषं धर्म कृत्वा स्वर्गे गत्वा क्रमान्मुक्ति गमिष्यन्ति । इति जीवदयायां चतुर्मित्राणां कथा ||८९॥
[90 ] अथ मलिकार्जुनभूपजेता श्रीआम्बडप्रबन्धः । पुहविकरंडे बंभंड,-संपुडे भमइ कुंडलिज्जतु ।
तुह अंबडदेव जसो, अलद्धपसरो भुयंगव्य ॥१॥ कोडिदानं । अथ कदाचित् सर्वावसरे स्थितः चौलुक्यनृपतिः। तदा कोकणदेशीय मल्लिकार्जुनस्य राम्रो मागधेन 'राजपितामह' इति बिरुदं प्रोक्तं । कुमारभूपालः श्रुत्वा दध्यौ-एतस्य मल्लिकार्जुनस्य राजपितामहेति बिरुदं मयोत्तारणीयं । अन्यदा सभायां राजबीटकं हस्तेकृत्य भूपः प्राह-यस्य तस्य निग्रहणाय शक्तिरस्ति स सुभटो बोटकं गृह्णातु । श्रुत्वैतत् कोऽपि सुभटो बीटकं न गृहाति, तस्यातीवबलं श्रुत्वा । ततः आम्बडेन करौ योजयित्वोक्तं-स्वामिन्नादेशो दीयतां मम त्वया, त्वत्प्रसादात्तं बिरुदं तस्मादपसारयामि ततो। राजा हर्षितो बीटकं तस्य ददौ । ततो महती सेनामादायाम्बडमन्त्रीश्वरो भूपं प्रणम्य पत्तनाच्चलितः। ततश्चलन्मन्त्री दुस्तरवारिपूर्णा कलविणी नदीमुत्तीर्य परस्मिन् कुले सेनानिवेशं कृतवान् । आम्बडमन्त्रिणमागतं श्रत्वा मल्लिकार्जुननृपोऽकस्मात्तत्रायातः। ततो मन्त्री सपरिवारो युद्धं क्षणं कृत्वा पश्चाद्वलितः । आम्बडो
"Aho Shrutgyanam"