________________
प्रथमोऽधिकाराः
[४७
[ 88 ] अथ पुण्यसारकथानकम् साकेतनपुरे भानुप्रभस्य भूपस्य मान्यो घनामित्राभिधः श्रेष्ठी बभूव । तस्य श्रेष्ठिनो घनमित्राभिधा प्रियाऽभूत् । साऽन्यदा रैकुम्भं स्वप्नेऽपश्यत् । क्रमात्सा पुत्रमसूत । जन्मोत्सवं कृत्वा तस्य सूनोः पुण्यसार इति नाम दत्तं पितृभ्याम् । क्रमाद्यौवनं प्राप सः। धन्यां कन्यां धर्मकर्मशास्त्रकुशलः पुण्यसारः पितृदत्तां समहं परिणिन्ये । क्रमात् पितरि स्वर्ग गते पुण्यसारस्य स्वप्ने लक्ष्मीरभ्येत्यैवमवोचत्-अहं त्वद्गृहे त्वदर्जितपूर्वपुण्यादेष्यामि । पुण्यसारोऽवग्कथमेष्यसि त्वं ? तयोक्तं प्रातस्त्वया गृहस्य चत्वारः कोणा विलोकनीयाः। ततः प्रगे चत्वारः कुम्भा रैभृताः दृष्टाः कोणेषु पुण्यसारेण । ततोऽनर्थभिया भूपस्याने गत्वा रैकुम्भागमनोदन्तं जगाद। राजा तत्रागतस्तान रैकुम्भान् दृष्ट्वा विस्मितोऽभूत्। लोभाद्राजा तान रैकुम्भान स्वकोशे निनाय । द्वितीयेऽहनि पुण्यसारस्तथैव रैकुम्भान् दृष्ट्वा भूपाप्रे जगाद । रैकुम्भस्वरूपं लोभाद्भूपस्तानपि कुम्भान् स्वगृहे नीतवान् । एवं तृतीयेऽपि दिने भूपेन रैकुम्भा गृहीताः । चतुर्थे दिने तथैव कुम्भेषु आनीतेषु भूपेन मन्त्री जगाद-कुम्भाः सर्व गताः । न ज्ञायते केन हृताः। तदा देवतयोक्तं-भो राजन् ! पुण्यसारस्य पुण्येन । तस्य पुण्यसारस्य गृहे रैकुम्भाः मया मुक्ताः । त्वं तु मुधा गृहासि । ततो राजा तान् सर्वान् कुम्भान् श्रेष्टिगृहे दृष्ट्वाऽवग्-भो श्रेष्ठिन् ! त्वं धन्योऽसि यस्येदृक्षं भाग्यं विद्यते । ततो राज्ञा सन्मानितः श्रेष्ठी गजारूढः स्वगृहे समागात् । ततो भूपस्तस्य श्रेष्ठिमुख्यतां ददौ । लोको जगौ-'लक्ष्मीः पुण्यानुगामिनी' भवति । ततः स पुण्यसारः सप्तक्षेच्या स्वं धनं सफलीचक्रे ।
तत्र सुनन्दः केवली समागात्, भूपो नन्तुं ययौ, पुण्यसारोऽपि गतः, सर्वेऽपि उपविष्टा: धर्म श्रोतुं । देशनान्ते धनमित्रोऽवग्-भगवन् ! मत्पुत्रेण प्राग्भवे किं पुण्यं कृतं ? सूरिरवगअत्रैव पुरे धनाह्वो नरोऽभूत् । सद्गुरोः पार्श्व धर्म जीवदयामयं श्रुत्वा जिनधर्ममङ्गीकृत्य शुद्धां जीवदयां पपाल । दानं शुद्धं दत्ते च यतिभ्यः, क्रमाद्गुरुपार्श्वे व्रतं जग्राह । सदा सिद्धान्तपठने श्रवणे गुरुवैयावृत्ये परः प्रान्तेऽनशनेन विपद्य तृतीये स्वर्गे देवो महर्द्धिकोऽभूत् । तत्रायुः प्रपाल्य पूर्वपुण्ययोगात्तवाङ्गजोऽजनि । तदा पुण्यसारः पश्चाद्भवसम्बन्धं श्रुत्वा जातिस्मृति प्राप्य विशिष्य ततो महातीर्थेषु शत्रुञ्जयादिषु स्वां श्रियं व्ययति स्म । पिताऽपि धर्म करोति स्म । क्रमान्मातापितृभिः समं पुण्यसारः संयम जग्राह । तपस्यां शुद्धामाराध्य स्वर्गे सुरा अभूवन् । ततो मनुष्यभवं प्राप्य शिवं यास्यन्ति सर्वेऽपि । इति पुण्यसार कथानकं प्रबलपुण्यविषये ज्ञातव्यं भव्यजनैः । इति प्रबलपुण्यविषये पुण्यसारकथानकम् ॥८८॥
[ 89 ] अथ जीवदयायां चतुर्मित्राणां कथा । सत्थवाहसुओ दक्खत्तणेणं, सिट्ठिसुओ सुरूवेण । बुद्धीइ अमच्चसुओ, जीवइ पुण्णेहिं रायसुओ ॥१॥ दक्खत्तं पंचरूयं, सुंदरे सयसमं विआरिज्जा । बुद्धी पुण्णसहस्सा, सयसहस्साई पुण्णाई ॥२॥
"Aho Shrutgyanam"