________________
१६ ]
प्रबन्धपश्चशती
[86 ] सुपात्रदाने कर्णभूपचारणसम्बन्धः । अन्येशुः कर्णराजो दानफलं मुक्त्यादिसौख्यं श्रुत्वा प्रतिप्रभाते भारशतमितं सुवर्ण दत्त्वोत्तिष्ठति सिंहासनात् । अत्रान्तरे एकदा कर्णस्य सत्पात्रदानेच्छायां प्रातः प्रथमं चारणद्वयं श्राद्धमिथ्यात्वधर्मवासितं समागात् । तदा ध्यातं कर्णेनेति, सत्पात्राय मया पूर्व दानं दातव्यं, सद्गतिहेतवे, यतः
अन्नदातुरवस्तीर्थकरोऽपि कुरुते करम् ।
तञ्च दानं भवेत्पात्रे, दत्तं, बहुफलं यतः ॥१॥ एवं म्यायन कर्णः पात्रपरीक्षापरो यावद्दानं न दत्ते तावदेकेन चारणेनोक्तं
पत्तपरिक्खह किं करूह, दिजउ मग्गंताह ।
वरसंतह किमु अंबुदहं, जोई सम-विसमाई ॥२॥ सदा कर्णः प्राइ-वरसु वरसु अंबरहत-वरसीडां फल जोइ ।
पत्तइ विस इक्खुरस, एवडं अंतर होइ ॥३॥
इति सुपात्रदाने कर्णभूपचारणसम्बन्धः ।
[87 ] अथ संसारासारतायां कथा । संसारम्मि असारे, नथि सुहं वाहिवेअणापउरे ।
जाणतो इह जीवो, न कुणइ जिणदेसि धम्मं ॥१॥ तथाहि-श्रीपुरे धनश्रेष्ठी, धनो प्रिया, चन्द्रः पुत्रः, तस्य पत्नी रूपश्रीः, चन्द्रः पत्नीमोहितः पत्न्योक्तं कुरुते । एकदा पल्ल्योक्तं-मां प्रति श्वशुरादयो यथातथा जल्पन्ति । ततः स मातापितृन् मुक्त्वा विदेशं प्रत्यचलत् । मार्ग तृषा लग्ना पल्याः । सा च जल्पति स्म पयो विना मम जीवितं नास्ति । ततो जगदे तेनाग्रतश्चलत सरो यावत् । साऽवग-अत्रानय पयः । सतस्तस्यां मोहितः स पयो नेतुं चचाल । सिंहो दृष्टः, जीवितव्यं तृणमिवावगणय्य सरसि गत्वा पयः पश्चादानीतवान् , यावप्रियाऽभूदचेतना। तां क्रमात्सचेतनीकृत्याप्रतश्चचाल । ततः कस्यचित्पुरोपान्ते कुपोपकण्ठे भायाँ मुक्त्वा पुरमध्ये भक्तमानेतुं गतः । तत्रस्था सा समीपकूपे एक कुष्ठिनं पङ्गरागं कुर्वाणं दृष्ट्वा मोहिताऽभूत् , भर्तृविषये निःस्नेहाऽभूत् । तया पङ्गपुर: [ पक्षोः पुरः ] प्रोक्तं-त्वं मम भर्ता भव । तेनोक्तं-कथमेवं जल्पसि ? क्वाहं, क्व त्वं ? ततः क्षणादर्ताऽगात्। आनीतं भक्तं त्रिधा कृत्वा एक भाग स्वस्य, एकं पक्षोः, एक पत्युः कारितं तया । ततश्चलन्त्या तया स पङ्गः साधे नीतः । मार्गे कदाचित्तं पुरुषमुत्पाटयति । कदाचित्सा क्रमाद्धन्तुमिच्छति सा पति, क्रमाकस्मिंश्चित्पुरे पुरपार्श्वे गत्वाऽवग सा, ममापहृत्य यात्ययं, ततो राजाऽऽगात् । तयोक्त-ममायं पॉर्भर्त्ता, असौ मुधाजल्पकः । ततो राज्ञा निष्कासितोऽसौ चन्द्रो दध्यो
यस्यै निजं कुलं त्यक्त, जीवितार्थ च हारितम् ।।
सा मयि भवति निस्नेहा, कः स्त्रीणां विश्वसेन्नरः ॥२॥ बतो राजा स्वस्वरूपं प्रोच्य संसारं तत्याज सः । इति संसारासारतायां कथा ||७||
"Aho Shrutgyanam"