________________
प्रथमोऽधिकारः
लक्षत्रयीविरहिता द्रविणस्य कोटीस्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन् युगादिजिनमन्दिरमुद्दधार, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ १ ॥ इति तीर्थे धनव्ययने दुर्गतसम्बन्धः ||८||
[ 84 ] लूणिगवहीति नामसम्बन्धः ।
पूर्वं धवलके लुणिग - माल [देव]-वस्तुपाल- तेजपालाः सोदरा निर्द्रव्या वसन्ति स्म । अन्यदा लूणिगस्यान्त्यावस्थायां पुण्यव्यये लक्षलक्षनमस्कारा मानिताः भ्रातृभिः । तैरुक्तं चअपरं वस्तु याचस्व | विमलवसहिकायां देवकुलिकामनोरथोऽभूत् मे, यदि सिद्धयति तदा मम् मनःसमाधिर्भवति । भ्रातृभिरुक्तम् - यदि श्रीः संपत्स्यते तदा कारयिष्यते । तदनु भाग्याज्जाते राजव्यापारे श्रीअर्बुदे श्रीमाता बोडापार्श्वाद् भूद्रम्मैराच्छाद्य गृहीता । ३६ द्रम्ममूटका [आ]स्तीरिताः । तैरुक्तमतः परं न त्वं द्रम्मैः पर्वतमपि गृह्णाासि ।
[सं०] १२८३ प्रासादारम्भः | १२९२ सम्पूर्णः । द्रव्यकोटी १२५३ लक्षलूणिगवसहिकायां व्ययिताः ।
[ ४५
इति लूणिगवसहीति नाम दत्तम् ||८४||
[ 85 ] अथ देवसूरिकान्हडयोगिसम्बन्धः ।
अन्यदा भृगुच्छे श्रीदेवसूरिपार्श्वे कान्हडका योगी ८४ सर्पकरण्डिकाश्चाऽऽदायागतः । मया समं वादं कुरुत, आसनं वा स्वं त्यजत यूयम् । गुरुभिरासनोपविष्टः परितः सप्त रेखाः कृताः । उक्तं च--- मयि सपन यथारुचि मु । ततः कान्हडकेनैकोऽहिर्मुक्तः । एकां रेखामपि गुरुकृतां नाक्रमति स्म । द्वितीयो द्वितीयाम्, एवं बहवोऽहयो मुक्ताः परं षष्ठी रेखा केनापि सर्पेण नाक्रमिता नाक्रामि वा । योगिनोक्तमेकशो [मेकैकशो] भूमावुपविशन्तु । प्रभुभिरुक्तं - किं भूमावुपविशनेन यः सबलोऽहिस्तमहिं मुख । ततश्च कान्हडेन नलिकान्तः आकृष्य [ नलिकान्तराकृष्य] रक्तः सिन्दूरिकः सर्पो दृष्टिपातमात्रेण कदलीपत्रं भस्मसात्कुर्वन् मुक्तः । वाहनलप रेखां न लङ्घते । इतः सिन्दूरसर्पेणोत्तीर्य जिह्वया रेखा भग्ना । वाहनसर्प उपरितनप्रेरणया आसनपादे चटितुं प्रवृत्तः । लोको हाहारवं कुरुते । गुरवो ध्यानपरायणा बभूवुः । एतस्मिन्नवसरे गुरुध्यानप्रभावादेत्य शकुनिकया सर्पद्वयमुत्पाद्य [ त्य] दूरतरं क्षिप्तं । जितो योगी दीनवदनीभूय टोsरमुत्तार्य गुरुचरणयोः पतितः प्राह - प्रभो ! ममैतदेव सर्पद्वयमाजीविका तेन क्वास्ति तत्सर्पद्वयम् ? प्रभुभिरुक्तं नर्मदातीरे कुरुकुल्लयागत्योवाच । मास ४ [मासचतुष्टयं] संमुखवटाधिरूढया व्याख्यानं श्रुतं तेन कथं प्रभूर्णा गुरूणामुपद्रवं द्रष्टुं शक्नोमीति सर्पोऽपाकृतः । गुरुभिः स्तुतिरूपं काव्यं जगदे । देव्योक्तं - इर्द कोशे तिष्ठतु, न प्रकाश्यं । प्रातर्द्वारलिखितं काव्यत्रयं मत्स्तुतिरूपं यः पठिष्यति तस्य सर्वोपद्रवो न भविष्यतीति विज्ञप्य स्वस्थानं गता । कान्हडो गुरुजितः । स्वां कलां सर्वां मुक्त्वा गुरुपादसेवापरोऽभूत् ।
I
इति देवसूरिकान्हडयोगसम्बन्धः ||८५||
"Aho Shrutgyanam"