________________
५४ ]
प्रबन्धपञ्चशती
चक्रतुः । चतुर्थ प्रहरे युधिष्ठिरराजः स्वयमेवोत्थाय सामायिकं लात्वा नमस्कारान् गणयन् तस्थौ, यावत्प्रतिकर्म [प्रतिक्रमण ] कर्तुकामो धर्मध्यानपरोऽभूत् तावदितः सोऽपि असुरः कलिः सप्ततालप्रमाणं वस्तु [ay] कृत्वोपसर्गयितुं लग्नः । एवं षट्पञ्चचतुस्त्रिद्विप्रभृतिहीनहीनतरव्याघ्रादिरूपाणि कृत्वा युधिष्ठिरं ध्यानाच्चालयितुं लग्नः । युधिष्ठिरस्तु प्रतिक्रमणं कुर्वन् सर्वथा मुक्तवैरः सन् स्थितः । तदा तेन [शरीरं ] कृष्णक्रमुकप्रमाणं कृतं यावत् तावद्युधिष्ठिरेण वर्तुलकेन स्थगितः सः प्रातर्भीमादीन् सर्वान् भ्रातृन् सुप्तान् दुःखेनोत्थाप्य युधिष्ठिरः पप्रच्छ - भो भ्रातरः ! कथमेव सुप्ता यूयं ? तदा तैः स्वं स्वं रात्रिवृत्तान्तमुक्तं । तदा युधिष्ठिरोऽवग्-- सोऽसुरोऽत्रास्ति यावद्वर्तुलकं पश्चात्करोति तावत् स कल्यसुरः सन्तुष्टः स्वरूपं प्रकटीकृत्य युधिष्ठिरं तुष्टावेति
धन्यस्त्वं पुण्यवान्भाग्यात् सौभाग्य सरलाशयः । विद्यसे धरणीपीठे, जगद्वन्द्यक्रमाम्बुजः ||१||
कल्यसुरोऽवग् — एवं यः क्षमां करोति स कलावपि स्वं कार्यं करोति मुक्तिभोग्यं सातमर्जयति च । ततो युधिष्ठिरोऽपि प्रतिकर्म [ प्रतिक्रमणं] कृत्वा सामायिकं पारयित्वाऽवग्- भो असुर ! मया तव योऽपराधः कृतः स क्षम्यतां त्वया । एवं मिथस्तौ क्षमयचक्रतुः |
इति प्रतिक्रमणमाविषये युधिष्ठिरकथा ॥ ८१ ॥
[ 82 ] अथ कर्णकद्विजकल्पितसम्बन्धः ।
कर्णः स्वर्णदानं भूरि दत्त्वा स्वर्गे गतः । तत्र स्वर्णमेव पश्यति, नान्यत् । ततः पृष्ठो गुरु प्राह-न त्वयाऽन्नादिदानं दतं तेन हेम पश्यन्नभूत् । ततो दातुं चन्द्रपुरे शृगालः श्रेष्ठी बभूव । तत्रान्नं दत्त्वा जिमते एकदा कोऽपि नायातः तदा खिन्नः श्रेष्ठी । कोऽपि देवश्चालयितुं योगिरूपभृत् अन्नं लातुमागतः, श्रेष्ठी भोजनं दातुमुत्थितः । सोऽवग्नाहमन्नं गृहणामि, किन्तु तव पुत्रमांसं । ततः पुत्रं हत्वा तन्मांसं ददौ । ततः श्रेष्ठी जगौ मां स्वर्गं नय । स देवरूपभृत् तव पुत्रं विना नाहं स्वर्गं दातुं क्षमः । ततः खिन्ने श्रेष्ठिनि देवेन पुत्रः प्रकटीकृतः ततो विशेतोऽन्नदानं ददौ । इति दाने कर्णकद्विजकल्पितसम्बन्धः ||८२||
[ 83] तीर्थे धनव्ययने दुर्गतसम्बन्धः ।
मन्त्रिवाग्भट्टेन तीर्थोद्धारे विधीयमाने तदर्थद्रव्यार्थं सर्वव्यवहारिनामसु लिख्यमानेषु एकेन मारवेन - दुर्गतेन यात्रागतेन स्वसर्वस्वं द्रम्मपञ्चकं पुण्यार्थे मन्त्रिणोऽप्पितं । मन्त्रिणा तन्नामनि धुरि लिखिते व्यवहारिणो रुष्टाः । तान् रुष्टान् दृष्ट्वा वाग्भट्टमन्त्री जगौ, एतेन सर्वस्वमर्पितं तथा चेद्भवद्भिरयते तदा भवतां नाम धुरि स्यादिति वचसा प्रसन्नीकृतास्ते महेभ्या उत्थाय तत्पदौ प्रणेमुः । तेन मारवेन पादलिप्तपुरे रन्धनाय चारों यच्छता द्रम्मभृतो लोट्टको लब्धः । पारणानन्तरं मन्त्रिणोऽग्रे मुक्तः । मन्त्री तं दृष्ट्वा जगौ त्वद्भाग्येनायं भवतश्वटितस्तेन त्वमेव गृहाण । ततो मारवेन लब्धधनार्द्ध तत्र तीर्थे व्ययितम्, मन्त्रिणः सन्मानितः, स क्रमात्प्रासादो निष्पन्नस्ततः बहुधनं व्ययितं मन्त्रिणा, तथाहि
" Aho Shrutgyanam"