________________
प्रबन्धपत्रशती
15
ते चत्वारः श्रष्टिनः समेत्य पप्रच्छुः । अस्माभिरेकस्मानराद्वस्तु गृहीतमस्ति तस्याने प्रोक्तमस्तियदा त्वं चलिष्यसे तदा यानं भृत्वा दास्यते । वेश्याऽवग-कदाचिन्मशकैर्यानं भृतं मार्गयिष्यति तदा किं क्रियते भवद्भिः । ते प्रोचुरेवं बुद्धिः स्तस्य कुतः ।
___ तत उपानद्दाता धूर्तः समागतः, तेनाप्युक्तं-मया तस्यैव चाखड्यौ दत्ते प्रोक्तं दृष्टं 5 मां कुर्याः, अहं तु हृष्टो न भविष्यामि, ततस्तस्य वस्तु ग्रहीष्यते । वेश्याऽवग्-यदि स त्वां भूपपार्श्व नीत्वा वदिष्यसि-राज्ञः सुतो जातः, त्वं हृष्टोऽथ न तदा किमु ।
तत एको धूर्तः पुनरागतः प्राह-मया सहस्रटङ्ककान् दत्त्वा तस्य श्रेष्टिसूनोः प्रोक्तंमम पित्रा तव पितुगृहे चक्षुर्ग्रहणके मुक्तं तच्चलता दातव्यम् । यदा चलिष्यति स तदा चक्षुर्मार्गयिष्यामि ।
__ वेश्याऽवग्-वर्यं न कृतं कदाचित् स गदिष्यति अस्मत्पितुः पार्श्वे बहूनां जनानां नेत्राणि ग्रहणके सन्ति, तेन त्वं स्वं चक्षुस्तुलायां मुश्च, ततस्तेन द्वितीयचक्षुषा समं तोलयित्वा दास्यामि ततस्त्वं हारयिष्यसि ।।
एवं प्रोच्य सर्वे स्वस्थानं गताः । एतत् श्रुत्वा चलनावसरे मशक राजपुत्रजन्म-चक्षुस्तोलनयुक्तिभिः साधिकां श्रियं तेभ्यो ललौ । इति बुद्धौ अन्यायपत्तनगतश्रेष्टिपुत्रसम्बन्धः।।७३।।
[74] निघृणत्वे वैद्यसम्बन्धः । एकस्मिन् पुरे द्वौ भ्रातरौ वैद्यौ वैद्यकशास्त्रकुशलौ लोकान् चिकित्सयन्तौ लक्ष्मीमर्जयतः स्म । एकदा वृद्धभ्राता कस्मिंश्चिद्ग्रामे गतः । तत्र कमपि पुरुषं चिकित्सयित्वा धनमादाय पश्चादागच्छन् स्वपुरसमीपे समागात् , तत्र चितां प्रज्वलन्तीं दृष्ट्वा तु दध्यौ। अहं ग्रामे ऽन्यत्रा
गममेकः कोऽपि मृतोऽत्र तस्य चिता ज्वलन्ती दृश्यते । मम भ्रात्रा अस्य नाडि विलोक्य किमपि 20 धनं गृहीतं न वेति । ततो वैद्यो दध्यौ--
साम्प्रतं दृश्यतेऽत्रैव, प्रज्वलन्ती चिता किल । ग्राममागामहं मे तु भ्रातुः किं चरितं नवा ॥१॥ चितां प्रज्वलितां दृष्ट्वा, वैद्यो विस्मयमागतः ।
नाहं गतो मम भ्रातुः, कस्येदं हस्तलाघवम् ॥२॥ 25
इति निघृणत्वे वैद्यसम्बन्धः ॥७४॥
[75 ] ताजिकग्रन्थविरचनसम्बन्धः । एकदा गूर्जरधरित्र्यां मुद्गलाः बहवः खरशानतः समागताः । तैगूर्जरधरित्रीमनुजा धृताः। तेषु मध्ये एको विद्वान् आचार्यो धृतः । स च नीतः खरसाणे स च तत्रस्थस्तेषां
मुद्गलानां भाषां स्तोकदिनैर्जज्ञौ । एकदा यस्य मुद्गलस्य गृहे तिष्ठति स्म । स मुद्गलो 30 वैरिग्राम लुण्टितुं गतः ।
इतो मध्याह्नसमये तस्य मुद्गलस्य माता पदच्छायामवित्वा विलोक्य झणमूवस्थिता उदरं कुष्यन्ती रोदितुं लग्ना । हा पुत्र ! कथं हतः ? किं करोमि त्वया विनाऽहम् , तवाऽऽधारे
"Aho Shrutgyanam"