________________
प्रथमोऽधिकारः
[४१
इदं कुटुम्बमासीत् , इत्यादि विलप्य विलप्य रुदती श्वनं दृष्टा पुत्रवधूः पदच्छायां विलोक्य
: श्वशं प्रति माह-मातर्मा रोदनं कुरु, तव पुत्रः कुशल्यस्ति । एकः शरो मस्तके लग्नोऽस्त्येकः पादे, एको वामहस्ते च, क्षेमेण सन्ध्यायां समेष्यति, ततः श्वश्रर्वध्वा रुदती रक्षिता । सन्ध्यायां यादृशं वध्वा प्रोक्तं तादृशं तेनाचार्यण दृष्टं । ततो दध्यौ-एते द्वे अपि कुशलिनी[न्यौ], परं वधूस्तु (श्वस्रा) अप्यधिका। ततस्तेन सूरिणा तत्रस्थेन यवनिकं शास्त्रं पठित्वा ताजिको ग्रन्थो नवीनो बद्धः। ततः सोऽत्र गूर्जरधरित्र्यां सूरिणा नीतः। सूरिस्तु ततस्तरक्षणमत्रागतः, ग्रन्थस्ततो निराम्नायोऽभवत् । तस्मिन् ग्रन्थे अतीतानागत-भाविभूतादिसर्व प्रोक्तमस्ति परं ताहग्बुद्धि विना सम्यग् न ज्ञायते । स चाधुनाऽत्र विद्यते । इति ताजिकग्रन्थविरचनसम्बन्धः ॥७॥
[76 ] मकरवानरसम्बन्धः । एकदा पुष्पाकरवनादेको वचनप्रियो वानरः कदाचिद् भ्रमन् वने वने फलाहारं कुर्वन् समुद्रतटे गतः । तत्रैक समुद्रमर्यादाजलान्त ठन्तं मकरं वीक्ष्य वानरः प्राह-मित्र ! किं जीवितनिविण्णोऽसि त्वं यदत्र व्याधभूमौ समागाः ? ततो मकरोऽवग
यस्य यद्विहितं स्थानं, यस्य यद्धेतवे कृतम् ।
तत्रैव रमते चित्तं, तत्र नान्यत्र वानर ! ॥१॥ उक्तं च सर्वस्वर्णमयी लङ्का, न मे लक्ष्मण ! रोचते ।
पितृपर्यागतायोध्या, निर्धनापि सुखावहा ॥२॥ किंच-जणणी' जम्मुप्पत्ती, पियसंगो जीवियं धणासा य ।
पच्छिमनिहा वरकामिणी, पंचवि [सत्तवि] दुक्खेण मुच्यते ॥३॥ अद्याई सफलजन्माऽभूवं तव दर्शनेन, उक्तं च
साधूनां दर्शनं श्रेष्ठ, तीर्थभृता हि साधवः ।
तीर्थ पुनाति कालेन, सद्यः साधुसमागमः ॥४॥ तस्मादत्र भवान् स्थलोत्पन्नः समागतः। भवादृशां गोष्ठयपि दुर्लभा । ततो वानरः प्राह-हे मकर ! अद्यप्रभृति त्वं मे प्राणाधिकमित्रं वर्तसे, मित्रस्य पुरः स्वसुखं दुःखं च प्रोच्य प्रायः सुखी जनो भवति । उक्तं च
प्रयुक्तसत्कारविशेषमात्मना, न मां परं संप्रतिपत्तमर्हसि । यतः सतां सन्नतगाविसंगतं, मनीषिभिः साप्तपदीनमच्यते ॥५॥
ततो मिथो वानरमकरयोः प्रीतिरजनि । वानरो वर्यफलानि मकराय विश्रामयति, मकरश्च निजपल्यै दत्ते, साऽपि फलाऽऽनयनसम्बन्धं पप्रच्छ । ततस्तेन वानरमित्रसम्बन्धः प्रोक्तः। ततः सा सगर्भा मकरी चिन्तयामास । यो वानरो नित्यमीदशानि फलानि सुस्वादूनि भक्षयति तस्य हृदयं पीनमतीव भृष्टं मांसममृतोपमं भवति, ध्यात्वेति पतिं प्रति मकरी प्राह-मम गर्भा नुभावात् तव मित्रवानरहृदयभक्षणदोहदो जातोऽस्ति । तं दोहदपूरणं विना मम प्राणा गमिष्यन्ति ।
"Aho Shrutgyanam"