________________
प्रथमोऽधिकारः
[ ३९
ततस्तासामने भट्टमात्रेणोक्तं-विक्रमार्को मृतः।
ततस्ताभिर्भटित्येव ध्यादिभाजनानि भग्नानि प्रोक्तं-हा विक्रमार्क ! सत्यवादक ! सात्त्विक ! न्यायप्रवर्तक ! सर्वजीवसुखकारक ! किं मृतः । ततस्ता भूमौ लोठं लोठं रुदन्ति ततस्तासामीदृशं चेष्टितं राज्ञा प्रकटीभूय बहुधनदानान्मानितास्ताः ।
इति यादृग्भूपनस्तादृग्लोकमनःप्रबन्धः ॥७१॥
[72 ] दानपरीक्षायां कर्ण-युधिष्ठिरसम्बन्धः । युधिष्ठिरराजो दानं ददानः केनापि न चाल्यते ।
कर्णभूमिपतिर्दत्ते, दानमभ्यर्थिते सदा ।
युधिष्ठिरस्तु पूर्वाह्वे, नापराह्ने कदाचन ॥१॥ इति श्रुत्वा द्वौ देवौ धार्मिकरूपं विधाय नृपगृहद्वारे गतौ, तदा दानं दत्त्वा राजा सुप्तः। 10 प्रतीहारेण साधर्मिकागमनं ज्ञापितं राज्ञः । युधिष्टिरेण ज्ञापितं-सदावसरो न भवति दानदाने ।
ततस्तो कर्णभूपगृहद्वारे गतौ, प्रतीहारेण तयोरागमनं ज्ञापितं, ततः कर्णः स्नानार्थमुपविष्टः खलिखरण्टितदेहः प्राह-प्रेध्येतां तौ, दानं दास्यते यतः
चलं चित्तं चलं वित्तं, चलं जीवितमावयोः । विलम्बो नैव कर्तव्यो, धर्मस्य त्वरिता गतिः ॥२॥
15 कर्णस्यैतद्वचः श्रुत्वा तौ देवौ प्रकटीभूय प्रोचतुः-अधुना तव तुल्यो दानी मुवि न विद्यते । इति दानपरीक्षायां कर्णयुधिष्ठिरसम्बन्धः ॥७२॥
[73 ] अथ बुद्धौ अन्यायपत्तनगतश्रेष्टिपुत्रसम्बन्धः । तामलिप्तिपुरात्पुत्रस्य विदेशे व्ययसायार्थ गच्छतस्तातेनेति शिक्षा दत्ता-अन्यायपुरपत्तने न गम्यम् [ गन्तव्यम् । तत्र च अन्यायो नृपः, अविचारको मन्त्री, सर्वग्राह्यारक्षकः, अशान्ति- 20 नामा पुरोहितः, गृहीतभक्षः श्रेष्ठी, मूलनाशः तत्सुतः, यमघण्टा कुट्टिनी, रणघण्टा तत्पुत्री, अन्ये घृतकारा बहवस्तत्र । धूते सर्वलोकः ।
___ततः पितुः शिक्षामादाय चलन् दैवादनीतिपत्तने गतः । प्रथमं तत्र चत्वारो मीलिताः श्रेष्टिनः, तैरुक्तं-व्यवसायकरणमिह दुःशकं, क्रयाणकमस्मभ्यं देहि, चलिता यन्मार्गयिष्यसि तदा वस्तुना तव यानं भरिष्यते । ततस्तेन सर्व वस्तु तेभ्यो दत्तं, साक्षिणः कृताः, ततः स पुरमध्ये 25 चचाल, वर्त्मनि एको धूर्तो वर्षे चाखडिके प्राभृतीकृत्य प्राह—यदा त्वं चलतः पुरात् तदा मां हृष्टं कुयोः। ततोऽप्रत एकधूतः सहस्रटङ्ककान् मम पित्रा नेत्रं ग्रहणकं तव पितुः पा
स्तमस्ति तच्चलतापणीयम् । ततः श्रेष्ठिसूः प्राह-अग्रे सर्व वयं भविष्यति । ततः स श्रेष्ठिपुत्रः पुर्याः शोभा विलोक्य वेश्यापुत्र्या गृहे गतः । तत्र स्थितः, तया समं प्रीतिर्जाताऽत्यन्तं, ततस्तेन स्ववस्तुविक्रयादिस्वरूपं तस्याः पुरः प्रोक्तं, तयोक्तं वयं न कृतं, तथापि तथा करिष्ये यथा 30 ते सुखं भविष्यति । ततः सखीवेषं कारयित्वा रणघण्टाया मातुहे तं साऽनैषीत् । तदा रात्रौ
"Aho Shrutgyanam"