________________
३८ ]
प्रबन्धपञ्चशती
15
[69] मनोनियन्त्रणे तापससम्बन्धः । एकस्मिन्पुरे चन्द्रोभूपो राज्यं करोति स्म । तत्र पुरादहिरेकस्तापसस्तपस्तपन् नारीमुखं न वीक्षते कदाचित् । यदा चतुःपश्चाष्टाधुपवासे पारणकं समायाति । लोकैरप्यर्थितो लोकगृहे
पृथक् पृथक्पारणकं चक्रे । एकदा स भूपेन पारणकायाभ्यर्थितः भूपगृहे पारणकं कर्तुं गतः। 5 भूपेन भक्तिः कृता वर्याहारदानात् , ततो राज्ञा बहुमानतो वयसुखासनारूढः स्वस्थानकं प्रति
चचाल राजमार्ग । इतोऽकस्मात्तस्य कामलतापण्यस्वी संमुखा मिलिता, तापसो नेत्रे निमीलयामास । ततस्तया तस्य शीर्षे दृढं दशार्द्धपूजा कृता । ततः स सद्यः पश्चाद्वलितो, राज्ञो ज्ञापितं वेश्या ऽवहीलनस्वरूपम् , ततो वेश्या साऽऽकारिता राज्ञा पृष्टा च । त्वया कथमेष ऋषिर्दशार्द्धपूजया
पूजितः । सा प्राहाऽयमेव पृच्छयतां । ततः स पृष्टः प्राह-मयाऽस्याः संमुखाऽऽगताया नेत्रे 10 निमीलिते । ततस्तयोक्तम्
आंखि म मीचिसि मिचि मन, नयनि निहाली जोइ ।
जइ मन मींचिसि आपणउं, अवर न बीजी कोइ ॥१॥ मनो यदि नियन्त्रितं तदा नेत्रे अपि वशीकृते यतः
मन एव मनुष्याणां, कारणं बन्धमोक्षयोः ।
अत एव मनो बाद, नियन्त्रणीयमन्वहम् ॥२॥ ततः स तापसो मनो नियन्त्रय मृत्वा स्वर्गे गतः ।
इति मनोनियन्त्रणे तापससम्बन्धः ॥६९।।
[70] सुसंगतिकसंगतौ हस्तिसम्बन्धः । पापुरे भूपस्य हस्ती सहस्रयोधी सदा साधुशालायाः समीपे बध्यते । स च साधोः 20 शान्तदान्तत्वादि दृष्ट्वा शान्तोऽजनि । ततो वैरिणो भूपहस्तिनं शान्तं ज्ञात्वा राज्यं ग्रहीतुं
वाञ्छन्ति । क्रमाद् मन्त्रिणा श्रुतं, राज्ञो ज्ञापितं च ततो पेनोक्तं-सर्वत्र मन्त्रि[मन्त्री]बुद्धया राज्यरक्षा करोति । ततो मन्त्रिणा स एव हस्ती शौनिकशालायाः समीपे बद्धः। ततस्तेषां कर्म दृष्ट्वा हस्ती युद्धाय सजो भवति स्म । इति सुसंगतिकुसंगतौ त्योः] हस्तिसम्बन्धः ॥७॥
[1] यादृग्भूपमनस्तादृग्लोकमनःप्रबन्धः । एकदा विक्रमादित्यो भट्टमात्रयुतो बहिरुद्याने गतः । विक्रमार्क प्राह-मम मनो गच्छतां कार्पटिकानां मारणेऽस्ति । भट्टोऽवग्-तर्हि तेषामपि तव मारणे समस्त्यधुना ।
ततो मन्त्रिणाऽप्रे भूत्वा तेषां पुरः प्रोक्तं विक्रमार्को मृतः, ततस्तैः प्रोक्तं तर्हि वयं जातम् । अद्यास्माकं दारूणि महाया॑णि भविष्यन्ति । तेऽप्रे गताः । ततः राशो जल्पितं90 तेषां शाषितं, ततो राज्ञोक्तम्-आगच्छन्त्य एता आभीर्यो भोज्यन्ते परिधाप्यन्ते ।
भट्टमात्रोऽवग-एतासां मनो वर्य भविष्यति ।
"Aho Shrutgyanam"