________________
[ ३७
प्रथमोऽधिकारः सूतई सूतई मांडा गण्या, राति भमंतई गादह लाध ।
मुद्रटीई इह हारज गलिओ; हवडां टीडो जोसी ग्रहीओ ॥१॥
ततः राजा चमत्कृतो राजा बुधं तं बहुधनदानेन सन्मानयामास बुधोऽवग्-भूपाद्य. प्रभृति मया यथा तथा न वक्तव्यम् । इति टीडासम्बन्धकथा ॥६६॥
[67 ] "गरुआ सहजिई" गाथा सम्बन्धः । गरुआ सहजिई गुणकरई, कंतमकारणजाजाणि ।
करसणसींचई सरभरई, मेघन मागई दाणु ॥१॥ तथाहि-कस्मिंश्चिन्नगरे धनदत्ताभिधो वणिग्वसति स्म । तस्य गृहे कश्चित्प्राघूर्णक आगतः । अस्य भोजनं देयमित्यभिधाय श्रेष्ठी हट्टे गतः । स प्राघूर्णकः स स्वादु रसवत्या प्रीणितस्तया, तेन प्राघूर्णकेन पत्राणि अडागराणि भक्षितानि । कानिचिनिर्विकल्प्य भगिनीत्य- 10 भिधाय तस्यै अपितानि । ततो धनदत्तो गृहे आगतः तानि पत्राणि पत्यै अर्पितानि तया तदा] तेन चिन्तितमहो असदृशमेतत् , ततस्तया मनोगतं भावं तस्य पत्युरवगत्याभिहितं-"गरुआ सहजि" इमां गाथा पूर्णा प्रोक्त्वा [प्रोच्य] तस्य निर्विकारप्राघूर्णकाऽर्पितपत्रसम्बन्धं प्राह पत्नीभो पते ? त्वया किमपि अलीकं न चिन्त्यं, पत्राणि भक्षय, ततस्तेन पन्योक्तं कृतम् । इति 'गरुआ सहजिई' गाथासम्बन्धः ॥६७॥
15 [ 68 ] कूपकम्बलिकापातकसम्बन्धः । व्ययन्ति केचिन्मनुजा धनं मुधा-विमृश्य कार्यैकपरा जडाशयाः । स कूपवाहा इव कूपकम्बली-प्रघातकान्मानवतोऽतिधूर्तकान् ॥१॥
तथाहि-कस्मिचिन्नगरे बहवः कूपवाहका गोधूमान् वयन्ते स्म । अत्रावसरे कश्चित्पथिकस्तस्मिन्मार्गे समागात् , तेन जलयन्त्रघट्या जलं पीत्वा प्रोचे भो कूपवाहकाः! कः कूपमध्ये 20 एता जलघटीर्जलैः पूरयति ? ततस्तैः कूपवाहकैः प्रोक्तं हसद्भिः-भवत्पिता घटीभरति । पथिको ऽवग–यदि मम पिता घटीमरति तन्न झीतं लगन् दाभावि । ततस्ते प्रोचरतो निजपितुः शीतरक्षायैका कम्बलिका[किं] न दीयते ? ततः प्राह तर्हि इयं कम्बलिका कूपे मया शीतरक्षायै क्षिप्यमाणाऽस्ति, एवं प्रोच्य कम्बलिकां क्षिप्त्वा गतः । ततो यदा गोधूमा निष्पन्नाः तदा ते विभागीकर्तुं लग्नाः । ततः पथिकः प्राह-मम पित्रा कूपाजलं कर्षितमस्ति ममापि भागः 25 कर्तव्योऽतः, ततो विवादं कृत्वा राजकूले स्वं भागं याचते स्म । तदा सर्वेरप्युक्तं-कूपे कम्बलिका तेन क्षिप्ता, अतोऽस्यापि गोधूमभागो दीयतां । ततः सोऽपि गोधूमभागं प्राप ।
इति कूपकम्बलिकापातकसम्बन्धः ॥६॥
"Aho Shrutgyanam"