________________
प्रथमोऽधिकारः
[63] प्रासादकरणे आरासणवासिपासिल पुण्यम् । आरास मं० गोगासुतः पासिलो दौर्बल्यादतीव दुःखितोऽभूत् । यतः -- वरं वनं व्याघ्रगणैर्निषेवितं, जलेन हीनं बहुकण्टकाकुलम् |
तृणैश्च शय्या वसने च वल्कलं, न बन्धुमध्ये निधनस्य जीवितम् ||१||
अन्यदा तैलपूर्णां कूपिकां गृहीत्वा पत्तने विक्रयार्थं गतः । तत्र त्रिभुवन विहारप्रासादे 5 देवानन्तुं गतः । देवान्नत्वा विहारस्तम्भादिषु प्रमाणं गृह्णन् तत्र वास्तव्या ! श्र० छाण्डापुत्र्या इसितं, किमियत्प्रमाणं प्रासादं कारयिष्यसि ?
[ ३५
पासिनोक्तम्- यदि कदाचिद्भगिनि ! प्रासादः कार्यते तदा प्रतिष्ठासमये त्वयाss[ गन्तव्यम् ] गम्यम् । गतः स्वपुरे पासिलः । १० उपवासैरयम्बिकाऽऽराधिता प्रसन्नाऽभूत् । यत्तः अम्बिकाsar - मार्गय [वृणु] वरम् । तेनोक्तम् — यथा नवीनः प्रासादः निष्पाद्यते तथा कुरु । 10 देवतमोक्तम्- सीसकखनिः रूप्यमयी कृता । ततस्तेन नमिनाथस्य प्रासादः कारितः ।
स च बिम्बप्रतिष्ठावसरे पत्तने गत्वा तां छांडापुत्रीं स्वभगिनीत्वेन प्रतिपन्ना [अ]ssनीता सन्मानिता च तेन । सा प्रतिष्ठा जाता संघभक्त्यवसरे प्रथमं गुरून् परिधाय श्रीसंघः पट्ट[] कूलवस्त्रैः परिधापितस्तेन । भगिन्या तया पट्टकूलेषु दीयमानेषु प्रोचे इमानि मम बहूनि सन्ति परं त्वया प्रासादः कारितः परं ममायं मण्डपोऽस्तु । तेनोक्तमेवं भवतु । तदा गुरु- 15 भिरिदं काव्यमुक्तम्
गोगाकस्य सुतेन मन्दिरमिदं श्रीनेमिनाथप्रभो
स्तु पासिलसंज्ञकेन सुधिया श्रावता मन्त्रिणा । शिष्यैः श्रीमुनिचन्द्रसूरिसुगुरोर्निग्रन्थचूडामणे
र्वादीन्द्रैः प्रभुदेवसूरिगुरुभिर्नेमेः प्रतिष्ठा कृता ||२||
तत्पुण्येन स पासिलः स्वर्गसौख्यमासाद्य क्रमात्स शिवं गमिष्यति । इति प्रासादकरणे आरासणवासिपासिलपुण्यम् ॥ ६३ ॥ [64] प्रासादे फलवर्धितीर्थकल्पः ।
"Aho Shrutgyanam"
20
एकदा श्रीदेवसूरयो मेडताप्रामे चतुर्मासकं कृत्वा फलवधिग्रामे मासकल्पं स्थिताः । तत्रत्य पारसाभिवश्राद्धेनान्यदा जालिमध्ये अम्लानपुष्पपूजितो लेष्टुराशिदृष्टिः । सतः श्रीगुर्वादेशेन 25 तद्विरडीकरणे श्रीपार्श्वविम्बं दृष्टम्, तस्य प्रासादकारणाय श्रीपार्श्वनाथेनोच्यते स्वप्ने समागत्य । ततः श्राद्धेन तेन पारसेन स्वस्य द्रव्याभावे उच्यमाने प्रत्यहं मदमढौकिताक्षतसुवर्णीभवनेन द्रव्यं बपि भावीति प्रत्ययो दर्शितः । ततः कारितः प्रासादः, एकस्मिन्पार्श्वे मण्डपादि सर्व निष्पन्नं तावता तत्पुत्रेणैतद्रव्यं कुतः समेतीति निर्बन्धपूर्व पृष्टेन सा० पारसेन यथावत्कथनेऽक्षता न सुवर्ण्यभवन् । द्रव्याभावात्प्रासादस्तावानेव तस्थौ । सं० १९९९ वर्षे फा० शु० १० बिम्बस्थापनं 30 १ 'मि' इति विथते, D प्रतो ।