________________
३४ ]
प्रबन्धपञ्चशती
प्रायो भिक्षायै अनेके साधव आगच्छन्ति । एषा संयतेषु रक्ता इति अन्यवचोभिर्भसिताऽपि तेषु . साधुषु भक्ति करोति । अन्यदा साधुलोचने पतितं तृणं जिह्वया कर्षयन्ती सुभद्रां दृष्ट्वा [श्वशुर]लोकेन तिलको भाले संक्रान्तो भर्तुर्दर्शितः, स मन्दस्नेहोऽभूत्प्रियाया, सुभद्रया स वृत्तान्तो ज्ञातः,
प्रवचनोडाहभीतया रात्रौ कायोत्सर्गः कृतः। ततस्तदा तत्र शासनदेव्योक्तं-प्रातरस्याः पुर्यो 5 द्वारेषु स्तब्धेषु मया, चालन्याऽऽकृष्टोदकेन त्वया प्रतोली उद्घाट्या, ततो जिनशासनप्रभावना
भवति । तदा बहीभिः सतीभिरनुद्घाटितेषु द्वारेषु पटहस्पर्शनपूर्व सुभद्रया देवतयोक्त विधिना प्रतोलीत्रयमुद्घाटितं, चतुर्थमधुनापि तथैवास्ति तत्र ततो विशेषाजिनशासनप्रभावना जाता, ततः सर्वकुटुम्बेन जैनो धर्मः प्रपेदे, साधव आराधिता, जिनेन्द्र आराधितः, मिथ्यात्वं त्यक्त्वा
सुभद्रा[श्वस्मादयोऽपि पुण्यमर्जयामासुः । इति सुभद्रा कथा ॥६१॥ 10
[ 62 ] निर्मोहकुटुम्बे गोपालकथा । सुस्थितप्रामे गोपालकुटुम्बी वसति, तस्य प्रिया गुणवतो, पुत्रः कालकः, वधूटी कामदेवी सर्वेऽपि विरहासहाः सुस्नेहमानसाः एकत्रैव तिष्ठन्ति स्म, न विदेशं गच्छन्ति च । अन्येषुस्तत्रागतश्रीधर्मघोषसूरिपार्श्वे संसाराऽसारतां श्रुत्वा अनित्यतां भावयन्ति स्मेति
एगोहं नस्थि मे कोइ, नाहमनस्स कस्सई ।
एवमदीणमणसो, अप्पाणमणुसासई ॥१॥ अन्यदा वर्षाकाले कालके हलखेटनाय गते तत्र पितृमातृवध्वाद्याः समाजग्मुः ।
अत्रान्तरे स्वर्गे कोऽपि देवोऽन्यदेवं प्रति प्राह-अधुना यादृशं गोपालकुटुम्बं निर्मोहं मिथोऽस्ति तादृशमन्यन्न दृश्यते ततस्तत्रैत्य तौ देवौ मनुष्यरूपं कृत्वा गतौ । एकः सर्परूपं कृत्वा
हलं खेटयन्तं पुत्रं दशति स्म । पुत्रेऽचेतनीभूते यदा पित्रादयः शोकं रोदनादि न कुर्वते, तदा 20 अपरो देवो मनुष्यरूपभृत्प्राह-भो भो गोपालादयः कालके मृतेऽपि भवद्भिः कथं न रुद्यते पिता प्राह तदा-अनाहूतो मया यातो, न मया प्रेषितो गतः ।
यथाऽऽयातस्तथा यातः का तत्र परिदेवना ॥१॥ जननी प्राह--- एकवृक्षसमारूढा, नानारूपा विहंगमाः ।
प्रातर्दिशो दिशं यान्ति, का तत्र परिदेवना ॥२॥ 25 कलत्रं परिजगो-पृथक्पृथस्थिते काष्ठे, अपरे तटिनीपतौ ।
संयुज्यते वियुल्येते, तत्र का परिदेवना ॥३॥ ततस्तौ देवी प्रकटीभूय निर्विषीकृत्य पुत्रं निर्मोहमिदं कुटुम्बमिति व्यावर्ण्य स्वस्थाने गतौ । इति निर्मोहकुटुम्बे गोपालकथा ॥६२।।
"Aho Shrutgyanam"