________________
क्रुधदुहेासूयार्थैर्य प्रति कोपः ॥२२॥२७॥
क्रुधाचर्थानां प्रयोगे ये प्रति कोपः स सम्प्रदानं स्यात् । मैत्राय क्रुध्यति दुधति ईय॑ति असूयति वा । कोप इति किम्? भार्यामीय॑ति । मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपचिकीर्षा । अपकार इत्यन्ये । ईर्ष्या परसम्पत्तावक्षमा । असूया गणिषु दोषाविष्करणम् ।।
नोपसर्गात्क्रुधिद्रुहा ॥२॥२॥२८॥ उपसर्गात्पराभ्यां क्रुधिगुहिभ्यां योगे यं प्रति कोपस्तत्कारकं सम्प्रदानं न स्यात् । मैत्रमभित्रुध्यति । मैत्रमभिद्रुह्यति वा । सोपसर्गों सकर्मकाविति द्वितीया।
__ यद्वीक्ष्ये राधीक्षी ॥२।२।५८॥ वीक्ष्यं विमतिपूर्व निरूपणीयम् । विप्रश्नविषयः । तद्विषया क्रियाऽपि वीक्ष्यम् । यत्सम्बन्धिनि वीक्ष्ये राध्यतिरीक्षतिश्च वर्तते तस्मिन् वर्तमानाद्गीणामानः सामर्थ्याद्राधियीक्षिभ्यामेय युक्ताचतुर्थी स्यात् । मैत्राय राध्यति ईक्षते था । तस्य दैवं पर्यालोचयतीत्यर्थः।
प्रत्याङः श्रुवाऽर्थिनि ॥२॥२॥५६॥ प्रत्याभ्यां परेण शृणोतिना युक्तादभिलाषुके वर्तमानागौणानामश्चतुर्थी स्यात् । द्विजाय गां प्रतिशृणोति । आशृणोति । याचितोऽयाचितो वा प्रतिजानीते।
प्रत्यनोर्गुणाऽऽख्यातरि ॥२॥२॥५७॥ आभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानागौणान्नानश्चतुर्थी स्यात् । आचार्याय प्रतिगृणाति । आचार्यायानुगृणाति। आचार्योक्तमनुवदति। प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः।।
परिक्रयणे ॥२२॥६॥ मियतकालं भृत्यादिना स्वीकरणेऽर्थे करणे वर्तमानाद्गौणान्नाम्नश्चतुर्थी वा स्यात् । शतेन शताय वा परिक्रीतः।
तादर्थं ॥२॥२॥५४॥ ____ किंचिद्वस्तु सम्पादयितुं यत्प्रवृत्तं तत्तदर्थम् । तस्य भावे तादर्थे सम्बन्ध विशेषे द्योत्ये नाम्नश्चतुर्थी स्यात् । षष्ठ्यपवादः। 'संयमाय श्रुतं धत्ते नरो धर्माय संयमम् । धर्म मोक्षाय मेधावी धनं दानाय भुक्तये ॥१॥