SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ समोज्ञोऽस्मृतौ वा ॥२५॥ अस्मृतौ वर्तमानस्य सम्पूर्वस्य जानातेः कर्मणि वा तृतीया स्यात् । मात्रा संजानीते मातरं वा । सम इति किम् ? मातरं जानाति । ज्ञ इति किम् ? मातरं संवेत्ति । अस्मृताविति किम् ? मातरं संजानीते स्मरतीत्यर्थः। दामः सम्प्रदानेऽधर्ये आत्मने च ॥२॥२॥५२॥ सम्पूर्वस्य दामः सम्प्रदानेऽधर्थे वर्तमानानाम्नस्तृतीया स्यात्तत्सन्नियोगे च दाम आत्मनेपदमेव । दास्या सम्प्रयच्छते कामी धर्थे तु पत्न्यै सम्प्रयच्छति । कृताद्यैः ॥२॥२॥४७॥ एभिर्निषेधार्थैर्युक्तात्तृतीया स्यात् । कृतं तेन । अलं प्रसङ्गेन । किं गतेन । कमोभिप्रेयःसम्प्रदानम् ॥२॥२॥२५॥ कर्मणा क्रियया वा करणरूपेण यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसम्बध्नाति स कर्माभिप्रेयः कारकं सम्प्रदानसंशं स्यात् । चतुर्थी सम्प्रदाने ॥२॥२॥५३॥ मौणानाम्नश्चतुर्थी स्यात् । देवाय बलिं ददाति । द्विजाय गां दत्ते । शिव्याय धर्ममुपदिशति । राज्ञे कार्यमावेदयति । क्रियाभिप्रेयः । पत्ये शेते। युद्धाय सन्नस्यते । देवेभ्यो नमति । रुचिक्लप्यर्थधारिभिः प्रेयविकारोत्त - मणेषु ॥२॥२॥५५॥ रुच्यथैः क्तृप्यर्थैर्धारिणा च धातुना योगे क्रमात्प्रेये विकारे उत्तमणे च वर्तमानाद्वौणानाम्नश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः । मुनये खदते दधि । तस्याभिलाषमुत्पादयतीत्यर्थः । प्रेय इति किम् ? चैत्राय रोचते मोदको माधुर्येण । अत्र माधुर्यशब्दान्न चतुर्थी । क्लप्यथैर्विकारे मूत्राय कल्पते यवागूः । धारिणोसमणे, चैत्राय शतं धारयति । उत्तमों धनिकः। श्लाघहस्थाशपा प्रयोज्ये ॥२२॥१०॥ लाघादिभिर्धातुभिर्योगे ज्ञाप्ये प्रयोज्येऽर्थे वर्तमानाङ्गोणानाम्नश्चतुर्थी स्यात् । मैत्राय श्लाघते हुते तिष्ठते शपते वा । श्लाघादि कुर्वाणः खं परं वा ज्ञाप्यं जानन्तं मैत्रं प्रयोजयतीत्यर्थः। स्पृहेाप्यं वा ॥२॥२६॥ सम्प्रदानम् ।। पुष्पेभ्यः स्पृहयति । पुष्पाणि वा स्पृहयति । ध्यायमिति किम्? पुष्पेभ्यः स्पृहयति वने । अत्राधारस्थ मा भूत।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy