________________
२१
नदी। क्रोशमधीते । व्यासाविति किम् ? मासस्य द्विरधीते । क्रोशस्य क्रोशे वैकदेशे गिरिः।
साधकतमं करणम् ॥२॥२॥२४॥ क्रियासिद्धावव्यवधानेन प्रकृष्टोपकारकं विवक्षितं तत्कारकं करणसंझं स्यात् । काष्ठैः स्थाल्यां पचति । दात्रेण लुनाति । तमग्रहणमपादानादिसंज्ञाविधी तरतमयोगो नास्तीतिज्ञापनार्थम् । तेन कुशूलात्पतति । गङ्गायां घोषः।
हेतुकर्तृकरणेत्थंभूतलक्षणे ॥२॥२॥४४॥ फलसाधनयोग्यः पदार्थों हेतुः । इत्थं कश्चित्मकारं भूत आपन्न इत्थम्भूतः, स लक्ष्यते येन स इत्थंभूतलक्षणः । हेत्वादिष्वर्थेषु गौणान्नानस्तृतीया स्यात् । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । इत्थंभूतलक्षणेऽपि, भवान् कमण्डलुना छात्रमद्राक्षीत् ।
यद्भेदैस्तद्वदाख्या ॥२॥२॥४५॥ यस्य भेदिनः प्रकारवतो भेदैः प्रकारैर्विशेषैस्तद्वतोऽर्थस्य प्रसिद्धिः स्थासद्वाचिनो गौणानाम्नस्तृतीया स्यात् । प्रकृत्या चारुः । अक्ष्णा काणः । गोत्रेण गार्यः। प्रायेण वैयाकरणः । तद्वदिति किम् ? अक्षि काणं पश्य । आख्येति किम् ? अक्षणा दीर्घ इति न स्यात् । तथाऽप्रसिद्धेः। व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ॥२॥२॥५०॥
व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया या स्यात् । द्विद्रोणेन धान्यं क्रीणाति । द्विद्रोणं द्विद्रोणं क्रीणाति वा।
करणं च ॥२॥२॥१९॥ दीव्यतेः करणं कर्मसंज्ञं च । चकारात्संज्ञाद्वयसमावेशः । अक्षरक्षान्वा दीव्यति।
सिद्धौ तृतीया ॥२२॥४३॥ फलप्राप्तौ द्योत्यायां कालाध्वनोासौ गौणान्नाम्नस्तृतीया स्यात् । मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् । क्रोशेन प्राकृतमधीतम् । सिद्धाविति किम् ? मासमधीतः परमाचारो नायातः।
सहार्थे ॥२॥२॥४५॥ सहार्थस्तुल्ययोगो विद्यमानता च । तस्मिन् गम्ये गौणानाम्नस्तृतीया स्यात् । पुत्रेण सहाऽऽगतः। पुत्रेण सह स्थूलो गोमान् । एवं सार्धं समं योगेऽपि। अर्थाद्गम्येऽपि सहार्थे । वृद्धो यूना।