________________
९०
मानागीणान्नान्नः प्रतिपर्यनुभिर्युक्ताद्वितीया स्यात् । यत्र मां प्रति मां परि मामनु स्यात् । योऽत्र मम भागः स्यात्स दीयतामित्यर्थः । लक्षणे, वृक्षं प्रति वृक्षं परि वृक्षमनु वा विद्योतते विद्युत् । वीप्सायाम्, वृक्षं वृक्षं प्रति सेचनम् । वृक्षं वृक्षं परिसेचनम् । वृक्षं वृक्षमनु नरः स्थितः । इत्थंभूते, साधुर्देवदत्तो मातरं प्रति परि अनु वा ।
लक्षणवीपस्येत्थंभूतेष्वभिना ||२२|३६||
लक्षणं चिह्नम् | अवयवशः समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा areer, तत्कर्म वीप्स्यम् । केनचिद्विवक्षितेन विशेषेण भाव इत्थंभावः । तद्विषय इत्थम्भूतः । एष्वर्थेषु वर्तमानाङ्गौणान्नान्नोऽभिना युक्ताद्वितीया स्यात् । वृक्षमभि विद्योतते विद्युत् । वृक्षंवृक्षमभिसेकः । साधुर्देवदत्तो मातरमभि । लक्षणादिष्विति किम् ? यदत्र ममाभि स्यात्तद्दीयताम् । पूजार्थे स्वत्योर्नोपसर्गगतिलक्षणं संज्ञाद्वयम् तेन । सुसिक्तं भवता । सुस्तुतं भवता इत्यत्रानुपसर्गत्वान्न वम् । पूजायां किम् ? सुषिक्तं किं तथाऽत्र । क्षेपोऽयम् ।
गतार्थावधिपरी ॥२२॥
अध्यागच्छति । आगच्छत्यधि । पर्यागच्छति । आगच्छतिपरि । अत्र न धातोः प्राक्त्वनियमः । यदर्थ क्रिया तस्मिन्निष्पन्ने क्रियायां प्रवृत्तिरतिक्रमः । अतिसिक्तं भवता । अतिक्रमेण स्तुतिः सेकश्च कृत इत्यर्थः । अत्र न षत्वम् । अतिसिक्त्वेत्यत्र समासाऽभावे यषादेशो न ।
क्रियाविशेषणात् ॥ २२|४१ ॥
क्रियाया यद्विशेषणं तद्वाचिनो गौणान्नान्नो द्वितीया स्यात् । मृदु पचति । मन्दं गच्छति । पदार्थसम्भावनान्ववसर्ग गर्दासमुच्चयेषु द्योत्येष्वपिर्नोपसर्गसंज्ञ इति वाच्यम् ॥ सर्पिषोऽपि स्यात् । सम्भावनायां सप्तमी वक्ष्यते । तस्या एव विषयरूपक्रियायाः कर्तुदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयत्यपिशब्दः । स्यादित्यनेन सम्बध्यते । इत्यनुपसर्गत्वान्न षत्वम् । सर्पिष इति षष्ठी तु अपिशब्देन गम्यविन्दोरवयवावयविभावसम्बन्धे | इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । शक्तिश्रद्धानं संभावनम् । अन्ववसर्गः कामचारानुज्ञा । गर्दा क्षेपः । समुच्चयो द्वित्र्यादिक्रियादिसंयोगः । अपि स्तुवीत जिनम् । अपि स्तुष्व स्तुष्व । धिग्देवदन्तम् अपि स्तुयाद्वृषलम् । अपि सिञ्च । अपि स्तुहि ।
कालाध्वनोर्व्याप्तौ ॥२२॥४२॥
स्वेन सम्बन्धिना द्रव्यगुणक्रियारूपेण कार्त्स्न्येन सम्बन्धो व्याशिरत्यन्तसंयोगः । तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानाङ्गीणान्नान्नो द्वितीया स्यात् । मासं गुडधानाः । मासं कल्याणी । मासमधीते । क्रोशं पर्वतः । कोशं वका