________________
शते । पर्वतमभिनिविशते । ग्रामोऽभिनिविश्यते । ग्रामोऽभिनिविष्टः । व्ययस्थितविभाषेयम् । कचित्कर्मसंज्ञैव कचिदाधारसंज्ञैव भवति । कल्याणेऽमिनिविशते ।
उपान्वध्यावसः ॥२॥२॥२१॥ ____ उप अनु अधि आभिर्विशिष्टस्य वसतेराधारः कर्मसंज्ञो भवति । उपवसति अनुवसति अधिवसति आवसति ग्रामं चैत्रः । अन्वादिसाहचर्य्यादुपस्य स्थानार्थस्यैव ग्रहणं न पुनरनशनार्थस्य । ग्रामे उपवसति । भोजनादिनिवृत्ति कुरुत इत्यर्थः।
सर्वोभयाभिपरिणा तसा ॥२॥२॥३५॥ सर्वादिमिस्तसन्तैर्युक्तागौणान्नानो द्वितीया स्यान्न षष्ठी । सर्वतो प्राम वनानि । एवमुभयत इत्यादि ।
द्वित्वेऽधोऽध्युपरिभिः ॥२॥२॥३४॥ एभिर्युक्ताद्गौणानानो द्वितीया एषामेव द्वित्वे सति स्यात् । अधोग्यो प्रामं नदी । उपर्युपरि ग्रामं पक्षिणः । अध्यधिग्राम क्षेत्राणि। गौणात्समयानिकषाहाधिगन्तराऽन्तरेणातिये
नतेनैर्द्वितीया ॥२॥२॥३३॥ समयादि वटः । निकषादि वटः । हा मैत्रं व्याधिर्वर्धते । धिङ् मूढम् । अन्तरा निषधं नीलं च मेरुः । अन्तरेण धर्म न सुखम् । अतिवृद्धं कुरून् महद बलम् । कुर्वतिक्रमेण वृद्धमित्यर्थः । येन पश्चिमां गतस्तेन पश्चिमां नीतः।
हेतुसहार्थेऽनुना ॥२॥२॥३५॥ हेतुर्जनकः । सहार्थस्तुल्ययोगो विद्यमानता च । एतद्विषयोऽपि सहार्थस्तयोर्वर्तमानादनुना युक्ताद्गौणान्नानो द्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुराः। तेन हेतुनेत्यर्थः। पर्वतमन्ववसिता सेना। तेन सह सम्बद्धेत्यर्थः । पराऽपि हेतो तृतीयाऽनेन वाध्यते।।
उत्कृष्टेऽनृपेन ॥२२॥३९॥ उत्कृष्टेऽर्थे वर्तमानादनूपाभ्यां युक्ताद्गौणान्नानो द्वितीया स्यात् । अनुसिसेनं कवयः । अनुजिनं देवाः । उपोमावाति सङ्ग्रहीतारः । तस्मादन्ये हीना इत्यर्थः।
भागिनि च प्रतिपर्यनुभिः ॥२॥२॥३७॥ वीक्रियमाणोंऽशो भागस्तत्वामी भागी। तत्र लक्षणाविषु चार्थेषुः पर्तचं. प्र. १२