________________
शिष्यं धर्म गुरुः । भुङ्क्ते पुत्र ओदनम् । भोजयति पुत्रमोदनं माता । शब्दः क्रिया व्याप्यं येषां ते शब्दकोणः । मैत्रो द्रव्यं जल्पति । जल्पयति मैत्रं द्रव्यं वणिक् । शब्दः कर्म-शृणोति शब्दं मैत्रः । श्रावयति शब्दं मैनम् । नित्याकमक, आस्ते मैत्रः । आसयति मैत्रं चैत्रः । कालाध्वभावदेशैः सर्वेऽपि धातवः सकर्मका एव । तेनान्यकर्मापेक्षया नित्याकर्मकत्वं ज्ञेयम् । गतीत्यादि किम्? पचत्योदनं चैत्रः । पाचयत्योदनं चैत्रेण मैत्रः। अणिकर्तेति किम् ? गमयति चैत्रो मैत्रम् । तमन्यः प्रयुङ्क्ते, गमयति चैत्रेण मैत्रं जिनदत्तः। अनीखाद्यदीति किम् ? नयति भारं चैत्रः । नाययति भारं चैत्रेण श्रेष्ठी । स्वादयत्यन्नं मैत्रेण । आदयत्योदनं मैत्रेण । हाययति चैत्रं मैत्रेण । शब्दाययति चैत्र मैत्रेण । क्रन्दयति चैत्रं मैत्रेणेत्यादौ कर्मसंज्ञाप्रतिषेधात्स्वव्यापाराश्रयं कर्तृत्वमेव ।
भक्षेर्हिसायाम् ॥२॥२॥६॥ भक्षेहिसार्थस्यैवाणिकर्ता णौ कर्म स्यात् । भक्षयन्ति सस्यं बलीवः। तान् प्रयुक्ते, भक्षयति सस्यं बलीवदान् मैत्रः। हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना । वनस्पतीनां सचेतनत्वादिसार्थः । पिण्ड्यां तु सिद्धान्नत्वान्न ।
दृश्यभिवदोरात्मने ॥२॥२॥९॥ दृशेरभिपूर्वस्य वदतेश्चात्मनेपदविषयेऽणिकर्ता णौ कर्म वा स्यात् । पश्यन्ति भृत्या राजानम् । दर्शयते राजा भृत्यान् भृत्यैवों । अभिवदति शिष्यो गुरुम् । अभिवादयते गुरु शिष्यं शिष्येण वा ।
वहेः प्रवेयः॥२॥२॥७॥ प्रचीयते प्राजतिक्रियया व्याप्यते यः स प्रवेयः । वहेरणिकर्ता णौ प्रवेयः। कर्मसंज्ञः स्यात् । वाहयति रथं वाहान् सूतः । प्रवेय इति किम् ? वाहयति भारं मैत्रेण । नात्र मैनः प्रवेयः ।।
हक्रोर्नवा ॥२॥२॥८॥ हरतेः करोतेश्चाणिकर्ता णी कर्म वा स्यात् । विहरति देशमाचार्यः। विहास्यति देशमाचार्यमाचार्येण वा । कारयति कटं चैत्रं चैत्रेण वा।
अधेः शीस्थास आधारः ॥२॥२॥ अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा ग्रामं चैत्रः।
वाभिनिविशः॥२॥२॥ अभिनीत्येतत्समुदायपूर्वस्य विशेराधारः कर्म वा स्यात् । ग्राममभिनिधि