________________
उक्तार्थानामप्रयोगात्प्रथमा नाममात्रतः ॥१॥ क्रियते कटः। कृतः पटः । पचति चैत्रः । नानीयं चूर्णम् । दानीयो मुनिः । भयानको व्याघ्रः । आस्यतेऽस्मिन्नासनम् । गोमान् । शतेन क्रीतः शतिकः । समासे न । नत इन्द्राय नतेन्द्रः। इत्यादि । क्वचिन्निपातेनोक्तम् । विषवृक्षोऽपि संवर्ध्य खयं छेत्तुमसाम्प्रतम् । पुनः कर्म त्रिविधम् । इष्टमनिष्टमनुभयं च । यदवाप्तुं क्रियाऽऽरभ्यते तदिष्टं घटादि । यद्विष्टं प्राप्यते तदनिष्टं विषं भक्षयति । अहिं लयति । यत्र नेच्छा न च द्वेषस्तदनुभयम् । ग्रामं गच्छन् वृक्षमूलान्युपस्पृशतीति । पुनस्तत्कर्म विविधम् । प्रधानेतरभेदात् । तच्च द्विकर्मकेषु दुहिभिक्षिरुधिप्रच्छिचिगब्रूगशास्वर्थेषु याचिजयत्यादिषु च स्यात् । गां दोग्धि पयः । पौरवं गांभिक्षते । गामवरुणद्धि ब्रजम् । छात्रं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । शिष्यं धर्म ब्रूते शास्ति वा । क्रुद्धं याचते शान्तिम् । याचिरिहानुनयार्थः । तेन भिक्षार्थीद्भेदः । गर्गान् शतं जयति । अमृतमम्भोधि मनाति । देवदत्तं मुष्णाति शतम् । नीहकृषवहपचां तथा । ग्राममजां नयति हरति कर्षति वहति वा । तण्डुलानोदनं पचति । उभयोः कर्मणोादेः प्रधानेतरता यथा । आरभ्यते क्रिया यस्मै तहुग्धाचं प्रधानकम् ॥१॥ तत्सिद्ध्यै क्रियया यत्तु व्याप्यतेऽन्यद्गवादिकम् । तदप्रधानं गौणाख्यं गोपालो दोन्धि गां पयः ॥२॥ यदा पयोर्था कादेः प्रवृत्ति. रविवक्षिता । तदा मुख्यासन्निधानाद्वादेरेव मुख्यता ॥ ३ ॥ गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽर्थे गुरुणोच्यते ॥४॥ न्यादीनां कर्मणो मुख्यस्योक्तत्वे प्रत्ययो यथा। नीयते गौर्द्विजैग्रामं भारो ग्राममथोह्यते ॥५॥ कालाध्वभावदेशं वाऽकर्म चाऽकर्मणाम् ॥२॥२॥२३॥ ___ कालो मुहूर्तादिः । अध्वा गन्तव्यः क्रोशादिः। भावः क्रिया गोदोहादिः। देशो जनपदग्रामनदीपर्वतादिः। अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्मसंज्ञो वा स्यात् । अकर्म च, यत्रापि पक्षे कर्मसंज्ञा तत्राऽकर्मसंज्ञापि वा स्यात् इत्यर्थः । मासमास्ते । मास आस्यते । क्रोशं खपिति । क्रोशः सुप्यते । गोदोहमास्ते । गोदोह आस्यते । कुरूनास्ते । कुरव आस्यन्ते । अविवक्षितकर्माणोऽप्यकर्मकाः । मासं पचति । मासः पच्यते । क्रोशमधीते । क्रोशोऽधीयते । कालादिरिति किम् ? शय्यायां शेते। गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदि
हाशब्दायक्रन्दाम् ॥२॥२॥५॥ गत्याद्यर्थानां शब्दकर्मणां नित्याकर्मकाणां च नीखाद्यदिह्रयतिशब्दायतिऋन्दिवर्जितानां धातूनामणिगवस्थायां यः कर्ता सणौ सति कर्म स्यात् । गच्छति मैत्रो ग्रामम् । गमयति मैत्रं ग्रामं चैत्रः।जानाति शिष्यो धर्मन् । ज्ञापयति